Book Title: Shodashadhikar Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Shwetambar Murtipujak Sangh

Previous | Next

Page 22
________________ षोडशाधिकार प्रकरणम् . . ॥ दशमोऽधिकारः ।। १४५. सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्त-वाहितया । सञ्जायते नियोगात्पुंसां पुण्योदय-सहायम् ।।१०-१।। १४६. तत्प्रीति-भक्ति-वचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परम-पद-साधनं सर्वमेवैतत् ।।१०- २।। १४७. यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेष-त्यागेन करोति यञ्च तत्प्रीत्यनुष्ठानम् ।।१०-३।। १४८. गौरव-विशेष-योगाद्बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्तत्यनुष्ठानम् ।।१०- ४।। १४९. अत्यन्त-वल्लभा खलु पत्नी तद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ।।१०-५।। १५०. वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।।१०-६।। १५१. यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्टयते सद्धिः । - तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।।१०-७॥ १५२. चक्र-भ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज् ज्ञापकं ज्ञेयम् ।।१०-८।। १५३. अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विजेये इह गतापाये ।।१०-९।। १५४. उपकार्यपकारि-विपाक-वचन-धर्मोत्तरा मता शान्तिः । आद्य-द्वये त्रिभेदा चरम-द्वितये द्विभेदेति ।।१०-१०।। १५५. चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । ___ आध-त्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ।।१०-११।। १५६. श्रुत-मय-मात्रापोहाचिन्ता-मय-भावना-मये भवतः । ____ ज्ञाने परे यथार्ह गुरु-भक्ति-विधान-सल्लिङ्गे ।।१०-१२।।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34