Book Title: Shodashadhikar Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Shwetambar Murtipujak Sangh

Previous | Next

Page 20
________________ षोडशाधिकार प्रकरणम् १२१. वचनानल-क्रियातः कर्मेन्धन-दाहतो यतश्चैषा । इतिकर्तव्यतयाऽतः सफलैषाऽप्यत्र भावविधौ ।।८-९।। १२२. एषा च लोक-सिद्धा शिष्ट-जनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः ।।८-१०।। १२३. आवाहनादि सर्वं वायुकुमारादिगोचरं चात्र । सम्मार्जनादि-सिद्ध कर्त्तव्यं मन्त्र-पूर्वं तु ।।८-११।। १२४. न्यास-समये तु सम्यक्सिद्धानुस्मरण-पूर्वकमसङ्गम् । सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा ।।८-१२।। १२५. बीज-न्यासः सोऽयं मुक्तो भाव-विनिवेशतः परमः । सकलावञ्चकयोग-प्राप्ति-फलोऽभ्युदय-सचिवश्च ।।८-१३।। १२६. लव-मात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादि-युतैर्मत्र्यादि-सङ्गतैर्वृहणीय इति ॥८-१४।। १२७. निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञ-मुष्टिरियम् ।।८-१५।। १२८. अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या ।। दानं च यथा-विभवं दातव्यं सर्वसत्त्वेभ्यः ।।४-१६।। . ॥ नवमोऽधिकारः ।। . १२९. स्नान-विलेपन-सुसुगन्धि-पुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ।।९-१।। १३०. अनुपकृत-पर-हित-रतः शिवदस्त्रिदशेश-पूजितो भगवान् । पूज्यो हित-कामानामिति-भक्त्या पूजनं पूजा ।।९-२।। १३१. पञ्चोपचार-युक्ता काचिश्याष्टोफ्वारयुक्ता स्यात् । ऋद्धि-विशेषादन्या प्रोक्ता सर्वोपचारेति ।।९-३।। १३२. न्यायाजितेन परिशोधितेन वित्तेन निरवशेषेयम् । कर्तव्या बुद्धिमता प्रयुक्त-ससिद्धियोगेन ।।९-४।।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34