Book Title: Shodashadhikar Prakaranam Author(s): Haribhadrasuri, Publisher: Jain Shwetambar Murtipujak SanghPage 31
________________ २२ २५३. तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ।।१६-१३।। २५४. अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ।। १६-१४।। २५५. गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । । पुंसा प्रवर्त्तितव्यं कुशले न्याय: सतामेषः । ।१६ - १५ । । २५६. एते प्रवचनतः खलु समुद्धृता मन्द-मति - हितार्थं तु आत्मानुस्मरणाय च भावा भव- विरह-सिद्धि - फलाः ।।१६ - १६ ।। २५७. धर्म-श्रवणे यत्नः सततं कार्यो बहु- श्रुत- समीपे । हित- काङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ।।१६-१७।। षोडशाधिकार प्रकरणम् ।। इति षोडशाधिकारप्रक्रणम् ।। ।। मूलमात्रम् ।।Page Navigation
1 ... 29 30 31 32 33 34