________________
२२
२५३. तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ।।१६-१३।। २५४. अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ।। १६-१४।। २५५. गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य ।
।
पुंसा प्रवर्त्तितव्यं कुशले न्याय: सतामेषः । ।१६ - १५ । । २५६. एते प्रवचनतः खलु समुद्धृता मन्द-मति - हितार्थं तु आत्मानुस्मरणाय च भावा भव- विरह-सिद्धि - फलाः ।।१६ - १६ ।। २५७. धर्म-श्रवणे यत्नः सततं कार्यो बहु- श्रुत- समीपे ।
हित- काङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ।।१६-१७।।
षोडशाधिकार प्रकरणम्
।। इति षोडशाधिकारप्रक्रणम् ।।
।। मूलमात्रम् ।।