________________
२१
षोडशाधिकार प्रकरणम् .
॥ षोडशोऽधिकारः ।। २४१. एतद्-दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः ।
सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः ।।१६-१।। २४२. सैषाऽविद्या-रहितावस्था परमात्म-शब्द-वाच्येति ।
एषैव च विज्ञेया रागादि-विवर्जिता तथता ।।१६-२।। २४३. वैशेषिक-गुण-रहितः पुरुषोऽस्यामेव भवति तत्त्वेन ।
विध्यात-दीप-कल्पस्य हन्त जात्यन्तराप्राप्तेः ।।१६-३।। २४४. एवं पशुत्त्व-विगमो दुःखान्तो भूत-विगम इत्यादि ।
अन्यदपि तन्त्र-सिद्धं सर्वमवस्थान्तरेऽत्रैव ।।१६-४।। २४५. परिणामिन्यात्मनि सति तत्तद्-ध्वनि-वाच्यमेतदखिलं स्यात् ।
अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ।।१६-५।। २४६. तद्योग-योग्यतायां चित्रायां चैव नान्यथा नियमात् ।
परिभावनीयमेतद्विद्वद्भिस्तत्त्व-दृष्टयोः ।।१६-६।। २४७. पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोध-मानं वा । ___ . भव-भव-विगम-विभेदस्तदा कथं युज्यते मुख्यः ।।१६-७।। २४८. अग्नि-जल-भूमयो यत्परिताप-करा भवेऽनुभव-सिद्धाः ।
रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ।।१६-८।। २४९. परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति ।
तन्मात्र एव तत्त्वे भव-भव-विगमो कथं युक्तौ ।।१६-९।। २५०. परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति ।
तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ।।१६-१०।। २५१. ऐदम्पर्य शुद्ध्यति यत्रासावागमः सुपरिशुद्धः ।
तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ।।१६-११।। २५२. तस्माद्यथोक्तमेतत् त्रितयं नियमेन धीधनैः पुम्भिः ।
भव-भव-विगम-निबन्धनमालोच्यं शान्त-चेतोभिः ।।१६-१२।। A. कल्पिता इति योगदीपिका सम्मतः पाठः ।