________________
२०
षोडशाधिकार प्रकरणम् २२९. परिणत एतस्मिन् सति सद्ध्याने क्षीण-किल्बिषो जीवः ।
निर्वाण-पदासत्रः शक्लाभोगो विगत-मोहः ॥१५-५।। २३०. चरमावञ्चकयोगात्प्रातिभ-सञ्जात-तत्त्व-संदृष्टिः ।
इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ।।१५-६।। २३१. तस्मिन् दृष्टे दृष्टं तद्भूतं तत्परं मतं ब्रह्म ।
. तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ।।१५-७।। २३२. सामर्थ्य-योगतो या तत्र दिदृक्षेत्यसङ्गशक्तत्यान्या ।
साऽनालम्बनयोगः प्रोक्तस्तद्-दर्शनं Aयावत् ।।१५-८॥ २३३. तत्राऽप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र ।
सर्वोत्तमानुजः खलु तेनाऽनालम्बनो गीतः ।।१५-९।।. २३४. द्रागस्मात्तदर्शनमिषु-पात-ज्ञात-मात्रतो ज्ञेयम ।
एतव केवलं तज्ज्ञानं यत्तत्परं ज्योतिः ॥१५-१०।। २३५. आत्मस्थं त्रैलोक्य-प्रकाशकं निष्क्रियं परानन्दम् ।
तीतादि-परिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥१५-११।। २३६. एतद्योग-फलं तत्परापरं दृश्यते परमनेन ।
तत्तत्त्वं यदृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ।।१५-१२॥ २३७. तनु-करणादि-विरहितं तशाचिन्त्य-गुण-समुदयं सूक्ष्मम् ।
त्रैलोक्य-मस्तकस्थं निवृत्त-जन्मादि-सक्लेशम् ।।१५-१३।। २३८. ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः ।।
आदित्य-वर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ।।१५-१४ ।। २३९. नित्यं प्रकृति-वियुक्तं लोकालोकावलोकनाभोगम् ।
स्तिमित-तरङ्गोदधि-सममवर्णमस्पर्शमगुरुलघु ।।१५-१५ ।। । २४०. सर्वाबाधा-रहितं परमानन्द-सुख-सङ्गतमसङ्गम् ।
निःशेष-कलातीत सदाशिवाधादि-पद-वाच्यम् ।।१५-१६।। A. तददर्शन... इति योगदीपिका सम्मतः पाठः ।