________________
१९
षोडशाधिकार प्रकरणम् .. २१७. अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महापाया ।
सर्वानर्थनिमित्तं मुद्विषयाङ्गार-वृष्टयाभा ।।१४-९।। २१८. रुजि निज-जात्युच्छेदात् करणमपि हि नेष्ट-सिद्धये नियमात् ।
अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ।।१४-१०।। २१९. आसङ्गेऽप्यविधानादसङ्ग-सक्तयुचितमित्यफलमेतत् ।
भवतीष्ट-फलदमुचैस्तदप्यसङ्गं यतः परमम् ।।१४-११।। २२०. एतदोष-विमूक्तं शान्तोदात्तादि-भाव-संयुक्तम् ।
सततं परार्थ-नियतं सङ्क्लेश-विवर्जितं चैव ।।१४-१२।। २२१. सुस्वन-दर्शन-परं समुल्लसन्गुण-गणौघमत्यन्तम् ।
कल्प-तरु-बीज-कल्पं शुभोदयं योगिनां चित्तम् ।।१४-१३।। २२२. एवंविधमिह चित्तं भवति प्रायः प्रवृत्त-चक्रस्य ।
ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ।।१४-१४ ।। २२३. शुद्धे विविक्त-देशे सम्यक्संयमित-काय-योगस्य ।
कायोत्सर्गेण दृढं यद्वा पर्यङ्कबन्धेन ।।१४-१५ ।। २२४. साध्वागमानुसाराभेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्ध-योगि-संस्मरणयोगेन ।।१४-१६।।
॥ पञ्चदशोऽधिकारः ।। . २२५. सर्व-जगद्धितमनुपममतिशय-सन्दोहमृद्धि-संयुक्तम् ।
ध्येयं जिनेन्द्र-रूपं सदसि गदत्तत्परं चैव ।।१५-१।। २२६. सिंहासनोपविष्टं छत्र-त्रय-कल्प-पादपस्याधः ।
तत्त्वार्थ-सम्प्रवृत्तं देशनया कान्तमत्यन्तम् ।।१५-२।। २२७. आधीनां परमौषधमव्याहतमखिल-सम्पदां बीजम् ।
चक्रादि-लक्षण-युतं सर्वोत्तम-पुण्य-निर्माणम् ।।१५-३।। २२८. निर्वाण-साधनं भुवि भव्यानामग्र्यमतुलमाहात्म्यम् ।
सुर-सिद्ध-योगि-वन्धं वरेण्य-शब्दाभिधेयं च ॥१५-४।।