SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८ . . षोडशाधिकार प्रकरणम् २०५. अभ्यासोऽपि प्रायः प्रभूत-जन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधान-युक्तानाम् ।।१३-१३।। २०६. अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । ... गुरु-विनयः श्रुत-गर्भो मूलं चास्या अपि ज्ञेयः ।।१३-१४।। २०७. सिद्धान्त-कथा सत्सङ्गमश्च मृत्यु-परिभावनं चैव । । दुष्कृत-सुकृत-विपाकालोचनमथ मूलमस्यापि ।।१३-१५॥ ... २०८. एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्त्तव्यः । ___ आमूलमिदं परमं सर्वस्य हि योगमार्गस्य ।।१३-१६।। ।। चतुर्दशोऽधिकारः ।। २०९. सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । . .. जिन-रूप-ध्यानं खल्वाधस्तत् तत्त्वगस्त्वपरः ।।१४-१।।.. २१०. अष्ट-पृथग्जन-चित्त-त्यागाद्योगि-कुल-चित्त-योगेन । जिन-रूपं ध्यातव्यं योग-विधावन्यथा दोषः ।।१४-२॥ . २११. खेदोद्वेग-क्षेपोत्थान-भ्रान्त्यन्यमुद्गासङ्गैः । । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ।।१४-३॥ . २१२. खेदे दााभावान्न प्रणिधानमिह सुन्दरं भवति । एतछेह प्रवरं कृषि-कर्मणि सलिलवज्ज्ञेयम् ।।१४-४ ।। २१३. उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगि-कुल-जन्म-बाधकमलमेतत्तद्विदामिष्टम् ॥१४-५।। २१४. क्षेपेऽपि चाप्रबन्धादिष्टफल-समृद्धये न जात्वेतत् ।। नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ।।१४-६।। २१५. उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य । अत्याग-त्यागोचितमेतत्तु स्व-समयेऽपि मतम् ।।१४-७।। २१६. भ्रान्तौ विभ्रम-योगान हि संस्कारः कृतेतरादि-गतः । ' तदभावे तत्करणं प्रक्रान्त-विरोध्यनिष्ट-फलम् ।।१४-८।।
SR No.002217
Book TitleShodashadhikar Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherJain Shwetambar Murtipujak Sangh
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy