________________
षोडशाधिकार प्रकरणम्
॥त्रयोदशोऽधिकारः ।। १९३. गुरु-विनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च ।
इतिकर्त्तव्यतया सह विज्ञेया साधुसचेष्टा ।।१३-१।। १९४. औचित्याद्गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् ।
आज्ञा-योगस्तत्सत्य-करणता चेति गुरु-विनयः ।।१३-२।। १९५. यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् ।
धर्म-कथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः ।।१३-३।। १९६. स्थानोर्णालम्बन-तदन्य-योग-परिभावनं सम्यक् ।
पर-तत्त्व-योजनमलं योगाभ्यास इति तत्त्वविदः ।।१३-४।। १९७. विहितानुष्ठानपरस्य तत्त्वतो योग-शुद्धि-सचिवस्य । - भिक्षाटनादि सर्वं परार्थ-करणं यते यम् ।।१३-५।। १९८. सर्वत्राऽनाकुलता यतिभावाव्ययपरा समासेन ।
कालादिग्रहणविधौ क्रियेतिकर्त्तव्यता भवति ।।१३-६।। १९९. इति चेष्टावत उद्यैर्विशुद्ध-भावस्य सद्यतेः क्षिप्रम् ।
. मैत्री-करुणा-मुदितोपेक्षाः किल सिद्धिमुपयान्ति ।।१३-७।। २००. एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्त्रोऽपि ।
एतद्भाव-परिणतावन्ते मुक्तिर्न तत्रैताः ।।१३-८।। . २०१. उपकारि-स्वजनेतर-सामान्य-गता चतुर्विधा मैत्री ।
मोहासुखसंवेगान्य-हित-युता चैव करुणेति ।।१३-९।। २०२. सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । ।
करुणानुबन्ध-निवेद-तत्त्व-सारा ह्युपेक्षेति ।।१३-१०।। २०३. एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् ।
सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युचैः ।।१३-११।। २०४. एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव ।
सदोधमात्रमेव हि चित्तं निष्पन्न-योगानाम् ।।१३-१२।।