________________
१६
षोडशाधिकार प्रकरणम् १८१. यस्यास्ति सक्रियायामित्थं सामर्थ्य-योग्यताऽविकला । .
गुरु-भाव-प्रतिबन्धाद्दीक्षोचित एव सोऽपि किल ।।१२-५।। १८२. देयाऽस्मै विधि-पूर्वं सम्यक्तन्त्रानुसारतो दीक्षा ।
निर्वाण-बीजमेषेत्यनिष्टफल दाऽन्यथाऽत्यन्तम् ।।१२- ६।। १८३. देश-समग्राख्येयं विरतिासोऽत्र तद्वति च सम्यक् ।
तन्नामादि-स्थापनमविद्रुतं स्व-गुरु-योजनतः ।।१२-७।।.. १८४. नाम-निमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । ____ तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः ।।१२-८।। १८५: कीर्त्यारोग्य-ध्रुव-पद-सम्प्राप्तेः सूचकानि नियमेन ।
नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ।।१२- ९।। १८६. तत्संस्कारादेषा दीक्षा सम्पद्यते महा-पुंसः ।
पाप-विषापगमात् खलु सम्यग्गुरु-धारणायोगात् ।।१२-१०।। . १८७. सम्पन्नायां चास्यां लिङ्ग व्यावर्णयन्ति समयविदः ।। .
धर्मकनिष्ठतेव हि शेषत्यागेन विधिपूर्वम् ।।१२-११।। १८८. वचन-क्षान्तिरिहादौ धर्म-क्षान्त्यादि-साधनं भवति ।
शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च ।।१२-१२।। १८९. आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् ।
सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ।।१२-१३।। १९०. ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता ।
सूक्ष्मार्थाऽऽलोचनया संवेगः स्पर्शयोगश्च ।।१२-१४।। १९१. स्पर्शस्तत्तत्त्वाप्तिः संवेदन-मात्रमविदितं त्वन्यत् । ____ वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेप-तत्फलदः ।।१२-१५।। १९२. व्याध्यभिभूतो यद्वनिर्विण्णस्तेन तक्रियां यत्नात् ।
सम्यक्करोति तद्वद्दीक्षित इह साधुसझेष्टाम् ।।१२-१६।।