________________
षोडशाधिकार प्रकरणम् -
१६९. ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोयैः ।
एतत्तु भावना - मयमशुद्ध सद्रल - दीप्ति समम् ।।११ - ९ ।।
-
-
१७०. आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति ।
न भवत्यसौ द्वितीये चिन्ता - योगात् कदाचिदपि । । ११-१० ।।
१७१. चारि - चरक5- सञ्जीविन्यचरक - चारण- विधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या । । ११- ११ ।। १७२. गुर्वादि-विनय-रहितस्य यस्तु मिथ्यात्त्व - दोषतो वचनात् । दीप इव मण्डलगतों बोधः स विपर्ययः पापः । । ११-१२ ।। १७३. दण्डी - खण्ड- निवसनं भस्मादि-विभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ।।११-१३।। १७४. मोह - विकार समेतः पश्यत्याऽऽत्मानमेवमकृतार्थम् ।
तद् व्यत्यय-लिङ्गरतं कृतार्थमिति तद्ग्रहादेव । । ११- १४ । । १७५. सम्यग्दर्शन-योगाज्ज्ञानं तद्ग्रन्थिभेदतः परमम् ।
सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तझ. । । ११-१५ ।। १७६. लोकोत्तरस्य तस्मान्महानुभावस्य शान्त - चित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः । । ११ - १६ । ।
।। द्वादशोऽधिकारः ।।
१७७. अस्मिन्सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनदक्षा वसन्त नृप - सन्निभा ज्ञेया ।।१२- १।। १७८. श्रेयो - दानादशिवक्ष-पणाच सतां मतेह दीक्षेति ।
-
'सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ।।१२- २ ।। १७९. यो निरनुबन्धदोषाच्छ्राद्धोऽनाभोगवान् वृजिन - भीरुः । गुरु- भक्तो ग्रह - रहितः सोऽपि ज्ञान्येव तत्फलतः । । १२- ३ ।। १८०. चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ।।१२- ४ ।।
१५