________________
१४
षोडशाधिकार प्रकरणम् १५७. उदकपयोऽमृतकल्पं पुंसां सम्मानमेवमाख्यातम् ।
विधियत्नवत्तु गुरुभिर्विषय-तृडपहारि नियमेन ।।१०-१३।। . १५८. शृण्वन्नपि सिद्धान्तं विषय-पिपासातिरेकतः पापः ।
प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ।।१०-१४।। १५९. नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि ।
कुर्वन्नेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ।।१०-१५।। १६०. यः शृण्वन्संवेगं गच्छति तस्याऽऽद्यमिह मतं ज्ञानम् ।। गुरुभक्त्यादिविधानात्कारण मेतद् द्वयस्येष्टम् ।।१०-१६।।
॥ एकादशोऽधिकारः ।। १६१. शुश्रूषा चेहाचं लिङ्गं खलु वर्णयन्ति विद्वांसः ।।
तदभावेऽपि श्रावणमसिरावनि-कूप-खनन-समम् ।।११-१॥ १६२. शुश्रूषापि द्विविधा परमेतरभेदतो बुधैरूक्ता । .
परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ।।११- २।।.. १६३. यूनो वैदग्ध्यवतः कान्ता-युक्तस्य कामिनोऽपि दृढम् ।
किन्नर-गेय-श्रवणादधिको धर्मश्रुतौ रागः ।।११- ३। १६४. गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः' करणे ।
सन्द्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेश-परम-फलम् ।।११-४।। १६५. विपरीता त्वितरा स्यात्प्रायोऽनर्थाय देहिनां सा तु ।
या सुप्त-नृप-कथानक-शुश्रूषा-वस्थिता लोके ।।११-५॥ . १६६. ऊहादि-रहित-माधं तद्युक्तं मध्यमं भवेज्ज्ञानम् ।
चरमं हित-करण-फलं विपर्ययो मोहतोऽन्य इति ।।११-६।। १६७. वाक्यार्थ-मात्र-विषयं कोष्ठक-गत-बीज-सत्रिभं ज्ञानम् ।
श्रुत-मयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ।।११-७।। १६८. यत्तु महा-वाक्यार्थजमतिसूक्ष्म-सुयुक्ति-चिन्तयोपेतम् ।
उदक इव तैल-बिन्दुर्विसर्पि चिन्तामयं तत्स्यात् ।।११-८।। १. तिरिति चित्पुस्तके पाठान्तरम् ।