________________
षोडशाधिकार प्रकरणम् .
. ॥ दशमोऽधिकारः ।। १४५. सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्त-वाहितया ।
सञ्जायते नियोगात्पुंसां पुण्योदय-सहायम् ।।१०-१।। १४६. तत्प्रीति-भक्ति-वचनासङ्गोपपदं चतुर्विधं गीतम् ।
तत्त्वाभिज्ञैः परम-पद-साधनं सर्वमेवैतत् ।।१०- २।। १४७. यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः ।
शेष-त्यागेन करोति यञ्च तत्प्रीत्यनुष्ठानम् ।।१०-३।। १४८. गौरव-विशेष-योगाद्बुद्धिमतो यद्विशुद्धतरयोगम् ।
क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्तत्यनुष्ठानम् ।।१०- ४।। १४९. अत्यन्त-वल्लभा खलु पत्नी तद्धिता च जननीति ।
तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ।।१०-५।। १५०. वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु ।
वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।।१०-६।। १५१. यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्टयते सद्धिः । - तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।।१०-७॥ १५२. चक्र-भ्रमणं दण्डात्तदभावे चैव यत्परं भवति ।
वचनासङ्गानुष्ठानयोस्तु तज् ज्ञापकं ज्ञेयम् ।।१०-८।। १५३. अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे ।
एतदनुष्ठानानां विजेये इह गतापाये ।।१०-९।। १५४. उपकार्यपकारि-विपाक-वचन-धर्मोत्तरा मता शान्तिः ।
आद्य-द्वये त्रिभेदा चरम-द्वितये द्विभेदेति ।।१०-१०।। १५५. चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च ।
___ आध-त्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ।।१०-११।। १५६. श्रुत-मय-मात्रापोहाचिन्ता-मय-भावना-मये भवतः । ____ ज्ञाने परे यथार्ह गुरु-भक्ति-विधान-सल्लिङ्गे ।।१०-१२।।