Book Title: Shodashadhikar Prakaranam Author(s): Haribhadrasuri, Publisher: Jain Shwetambar Murtipujak SanghPage 23
________________ १४ षोडशाधिकार प्रकरणम् १५७. उदकपयोऽमृतकल्पं पुंसां सम्मानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषय-तृडपहारि नियमेन ।।१०-१३।। . १५८. शृण्वन्नपि सिद्धान्तं विषय-पिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ।।१०-१४।। १५९. नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ।।१०-१५।। १६०. यः शृण्वन्संवेगं गच्छति तस्याऽऽद्यमिह मतं ज्ञानम् ।। गुरुभक्त्यादिविधानात्कारण मेतद् द्वयस्येष्टम् ।।१०-१६।। ॥ एकादशोऽधिकारः ।। १६१. शुश्रूषा चेहाचं लिङ्गं खलु वर्णयन्ति विद्वांसः ।। तदभावेऽपि श्रावणमसिरावनि-कूप-खनन-समम् ।।११-१॥ १६२. शुश्रूषापि द्विविधा परमेतरभेदतो बुधैरूक्ता । . परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ।।११- २।।.. १६३. यूनो वैदग्ध्यवतः कान्ता-युक्तस्य कामिनोऽपि दृढम् । किन्नर-गेय-श्रवणादधिको धर्मश्रुतौ रागः ।।११- ३। १६४. गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः' करणे । सन्द्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेश-परम-फलम् ।।११-४।। १६५. विपरीता त्वितरा स्यात्प्रायोऽनर्थाय देहिनां सा तु । या सुप्त-नृप-कथानक-शुश्रूषा-वस्थिता लोके ।।११-५॥ . १६६. ऊहादि-रहित-माधं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हित-करण-फलं विपर्ययो मोहतोऽन्य इति ।।११-६।। १६७. वाक्यार्थ-मात्र-विषयं कोष्ठक-गत-बीज-सत्रिभं ज्ञानम् । श्रुत-मयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ।।११-७।। १६८. यत्तु महा-वाक्यार्थजमतिसूक्ष्म-सुयुक्ति-चिन्तयोपेतम् । उदक इव तैल-बिन्दुर्विसर्पि चिन्तामयं तत्स्यात् ।।११-८।। १. तिरिति चित्पुस्तके पाठान्तरम् ।Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34