Book Title: Shodashadhikar Prakaranam Author(s): Haribhadrasuri, Publisher: Jain Shwetambar Murtipujak SanghPage 21
________________ ... . षोडशाधिकार प्रकरणम् १३३. शुचिनात्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसा-रहितेन च तथा तथा भाववृद्ध्योद्यैः ।।९-५।। .. १३४. पिण्ड-क्रिया-गुण-गतैर्गम्भीरैर्विविध-वर्ण-संयुक्तैः । .. आशय-विशुद्धि-जनकैः संवेग-परायणैः पुण्यैः ।।९-६।। १३५. पाप-निवेदन-गर्भः प्रणिधान-पुरस्सरैर्विचित्रार्थः । अस्खलितादि-गुण-युतैः स्तोत्रैश्च महामति-ग्रथितैः ।।९-७।। १३६. शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूत-गुणोत्कीर्तन-संवेगात्समरसापत्त्या ।।९-८।। १३७. कायादि-योग-सारा त्रिविधा तच्छुद्ध्युपात्त-वित्तेन । ... या तदतिचार-रहिता सा परमान्ये तु समयविदः ।।९-९।।। १३८. विघ्नोपशमन्याद्या गीताभ्युदयप्रसाधनी चान्या । निर्वाणसाधनीति च फलदा तु यथार्थ-संज्ञाभिः ।।९-१०।। १३९. प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तहाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ।।९-११।। १४०. त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायाम् । अखिल-गुणाधिक-सद्योग-सार-सद्ब्रह्म-याग-परः ।।९-१२।। १४१. स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । ___कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ।।९-१३।। १४२. कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फल-भावः ।।९-१४ ।। १४३. कृतकृत्त्यत्त्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थषाऽऽरम्भवतोऽन्यत्र विमलधियः ।।९-१५।। १४४. इति जिनपूजां धन्यः शृण्वन् कुर्वंस्तदोचिता: नियमात् । ' भव-विरह-कारणं खलु सदनुष्ठानं द्रुतं लभते ।।५-१६।।Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34