Book Title: Shodashadhikar Prakaranam Author(s): Haribhadrasuri, Publisher: Jain Shwetambar Murtipujak SanghPage 16
________________ षोडशाधिकार प्रकरणम् ७३. आगम-वचन-परिणतिर्भव-रोग-सदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ।।५-९।। ७४. दश-संज्ञा-विष्कम्भण-योगे सत्यविकलं ह्यदो भवति । पर-हित-निरतस्य सदा गम्भीरोदार-भावस्य ।।५-१०।। ७५. सर्वज्ञ-वचनमागम-वचनं यत्परिणते ततस्तस्मिन् । ___नासुलभमिदं सर्वं ह्युभय-मल-परिक्षयात्पुंसाम् ।।५-११।। ७६. विधि-सेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरु-पारतंत्र्य-योगादौचित्याचैव सर्वत्र ।।५-१२।। ७७. न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीन-तपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु ।।५-१३।। ७८. देव-गुण-परिज्ञानात्तद्धावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तद्देवार्चन चेष्टम् ।।५-१४ ।। ७९. एवं गुरु-सेवादि च काले सद्योगविघ्नवर्जनया । ___इत्यादि-कृत्य-करणं लोकोत्तर-तत्त्व-सम्प्राप्तिः ।।५-१५ ।। ८०. इतरेतर-सापेक्षा त्वेषा पुनराप्त-वचन-परिणत्या । . भवति यथोदित-नीत्या पुंसां पुण्यानुभावेन ।५-१६।। । षष्ठोऽधिकारः ।। . ८१. अस्यां सत्यां नियमाद्विधि-वजिनभवनकारणविधानम् । सिद्धयति परम-फलमलं ह्यधिकार्यारम्भकत्त्वेन ।।६-१।। ८२. न्यायार्जित-वित्तेशो मतिमान् स्फीताशयः सदाचारः । - गुर्वादिमतो जिन-भवन-कारणस्याधिकारीति ॥६-२।। ८३. कारण-विधानमेतच्छुद्धा भूमिर्दलं च दादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥६-३।। ८४. शुद्धा तु वास्तु-विद्या-विहिता सन्यायतश्च योपात्ता । ___न परोपतापहेतुश्च सा मुनीन्द्रः समाख्याता ।।६-४।। .Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34