________________
-
... षोडशाधिकार प्रकरणम् १०९. आगम-तन्त्रः सततं तद्वद्भक्तयादि-लिङ्ग-संसिद्धः ।..
चेष्टायां तत्स्मृतिमान् शस्त: खल्वाशयविशेषः ।।७-१३॥ ११०. एवंविधन यद्विम्बकारणं तद्वदन्ति समयविदः । - लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ।।७- १४।। १११. लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य ।
• अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ।।७-१५।। . ११२. कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात् ।।७-१६।।
।। अष्टमोऽधिकारः ॥ .. ११३. निष्पन्नस्यैवं खलु जिन-बिम्बस्योदिता प्रतिष्ठाऽऽशु । ___दश-दिवसाभ्यन्तरतः सा च त्रिविधा समासेन ।।४-१।। : ११४. व्यक्तयाख्या खल्वेका क्षेत्राख्या चापरा महाख्या च ।
यस्तीर्थकृयदा किल तस्य तदाद्येति समयविदः ।।८-२॥ ११५. ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया ।
सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ।।८- ३।। ... ११६. भवति च खलु प्रतिष्ठा निज-भावस्यैव देवतोदेशात् । ...
स्वात्मन्येव परं यत्स्थापनमिह वचननीत्योः ।।८-४।। ११७. बीजमिदं परमं यत्परमाया एव समरसापत्तेः ।
स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ।।८- ५।। ११८. मुक्तत्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु ।
स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ।।८- ६।। ११९. इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति ।
तदतत्त्वकल्पनैषा बालक्रीडासमा भवति ।।८-७।। १२०. भावरसेन्द्रात्तु ततो महोदयाजीवतास्वरूपस्य ।
कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता.॥८-८॥