________________
पोडशाधिकार प्रकरणम्
। सप्तमोऽधिकारः ।। ९७. जिन-भवने तद्विम्बं कारयितव्यं द्रुतं तु बुद्धिमता ।
साधिष्ठानं ह्येवं तद्भवनं वृद्धि-मद्भवति ।।७-१।। ९८. जिन-बिम्ब-कारण-विधिः काले पूजा-पुरस्सरं कर्तुः ।
विभवोचितमूल्याऽर्पणमनघस्य शुभेन भावेन ।।७-२।। ९९. नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति ।
काले च दानमुचितं शुभभावेनैव विधिपूर्वम् ।।७-३।। १००. चित्त-विनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि ।
अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्म-तत्त्वज्ञः ।।७-४।। १०१. एष द्वयोरपि महान् विशिष्ट-कार्य-प्रसाधकत्त्वेन ।
सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति ।।७-५।। १०२. यावन्तः परितोषा: कारयितुस्तत्समुद्भवाः केचित् ।।
तद्विम्बकारणानीह तस्य तावन्ति तत्त्वेन ।।७-६।। १०३. अप्रीतिरपि च तस्मिन् भगवति परमार्थ-नीतितो ज्ञेया । . . सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या ।।७-७।। १०४. अधिक-गुणस्थैनियमात् कारयितव्यं स्वदौर्हदैर्युक्तम् ।
न्यायार्जितवित्तेन तु जिनबिम्बं भावशुद्धन ।।७-८।। . १०५. अत्रावस्था-त्रय-गामिनो बुधैर्हिदाः समाख्याताः ।
बालाद्याश्चत्ता यत्तत्क्रीडनकादि देयमिति ।।७-९।। १०६. यद्यस्य सत्कमनुचितमिह वित्ते तस्य तजमिह पुण्यम् ।
भवतु शुभाशय-करणादित्येतद्भावशुद्धं स्यात् ।।७-१०।। १०७. मन्त्र-न्यासश्च तथा प्रणव-नमःपूर्वकं च तत्राम ।
मन्त्रः परमो ज्ञेयो मनन-त्राणे ह्यतो नियमात् ।।७-११।। १०८. बिम्बं महत्सुरूपं कनकादिमयं च यः खलु विशेषः ।
नास्मात्फलं विशिष्टं भवति तु तदिहाशय-विशेषात् ।।७-१२।।