Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 13
________________ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेम् । प्रयुज्यते च "तमिन्दुः परिषस्वजे' इति । एतञ्च कित्त्वं पिदर्थमपिदर्थ चेति सुधाकरः । अपिदर्थमेवेति न्यासकारात्रेयादयः ! हरदत्तस्तु सन्दि. देह। वस्तुतस्तुन्योसाद्युतमेव ज्यायः, इह.वृत्तौ पाष्ठभाष्ये चापित एवोदा हृतत्वात् । "श्रन्थ ग्रन्थ सन्दर्भ" (क्या.प.१५१३,१४)श्रेयतुः: श्रेथुः । ग्रेथ तुः, ग्रेथुः । देभतुः, देभुः । सस्वजे, सम्व जाते । केचित्त "श्रन्थिग्रन्थिदम्भिस्वञ्जीनां वा" इति पठन्तः कित्त्वं विकल्पयन्तीति हरदत्तमाधवौ । तन्मते ददम्मतुः, शश्रन्थतुरित्याद्यपि। सुधाकरमतेतुणल्यपिश्रेथ-ग्रेथ-देभ इति । स्यादेतत् । सर्वमतेषु श्रेथतुः, ग्रेथतुः इत्यादि दुर्लभम्। 'सस्त्रजे' इतिवत्संयुक्तहलमध्यस्थत्वादिति चेत् ! सत्यम् । अत एव एत्वाभ्यासलोपावण्यत्र क्तव्यावितिहरदत्तः। अत्रमूलं मृग्यम्। तथा सुधाकरमते श्रेथिथ, न्यासादि. मते 'शश्रनिपथ' इति वक्तो माधवस्याप्युक्तौ मूलं मृग्यम् । कित्त्वे विप्र. तिपत्तावपि "थलि च सेटि" (अष्टा-सू०६-४-१२१) इत्यस्याप्राप्तेरविशेपात् । तथा नलोपस्यासिद्धत्वादेत्वाप्राप्तौ वचनमिति माधवोक्तिरपि शिथिलमूला । श्रन्थेतिप्राग्भागे संयोगसत्वाद् ग्रन्थेरादेशादित्वाच्चैत्वाप्रा. रुद्रटतया नलोपसिद्धत्वासिद्धत्वविचारस्थ काकदन्तपरीक्षाप्रायत्वा. दिति दिक् । कौमाराणां तु सर्वमिदं सूत्रारूढम् । तथा च शर्ववर्मणा सुत्रितम्-"अनिदनुबन्धानामगुणेनुषङ्गलोपः परोक्षायामिन्धिश्रन्थिन. निधदम्मीनामिति । अस्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् थलि च सेटि तफलमजत्रपश्रन्थिग्रन्थिदम्भीनां चेति । अत्र निरनुषः साहच. यात् 'शथिय' इत्यादीति दुर्गसिंहः । एवं स्थिते "दम्भेश्च" (का० पा०) इति वार्तिकभाज्ययोः सामान्यापेक्षनापकतामाश्रित्य दमित्रप्रभृती. नामन्यत्रोके पाणिनीयेऽपीष्टमिति कथश्वित्समर्थनीयम्। मृडमृदगुषकुषलिशवदवसः क्त्वा (अष्टा०सू०१-२-७) । गुधकुष. क्लिशिभ्यः क्त्वो "रलोव्युपधात्" (अष्टा०१-२-२६) इति विकल्पे प्राप्ते इतरेभ्यो "न क्त्वा सेट् (अष्टा०सू०१-२-१८) इति निषेधे प्राप्त कित्त्वं विधीयते । मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा, उदिस्वा, उषित्वा, “वसतिक्षुधोः” (अष्टा०सू०७-२-५२। इतीट् । यजादित्वात्संप्र. सारणम्। रुदविदमुषग्रहिस्वपिप्रच्छस्संश्च (अष्टा०सू०१-२-८)। एभ्यस्संश्च क्वा च किती स्तः । रुदविदमुषाणां "रलो व्युपधात्' (अष्टा सू०१-२२६) इति विकल्पे प्राप्ते आहेस्तु विध्यर्थमेव । स्वपिप्रच्छयोस्तु समर्थम् । तावतैव चरितार्थत्वादनिटः स्व. कित्त्वविधानं नियामकं स्यादिति न शङ्कनीयम् । रुदित्वा, रुरुदिषति, विदित्वा, विविदिषति, मुषित्वा, मुमु.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 510