Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 11
________________ शब्दकौस्तुभप्रथमाध्यायद्वितोयपादे प्रथमान्हिकेविज इट् (अष्टा०स०१-२-२) । विजेः पर इडादिः प्रत्ययो ङित्स्यात् । उद्विजितुम् । इट् किम् ? उद्वेजनम् । इह "वृद्धिर्यस्य" (अष्टा०स०१-१७३) इतिसूत्रान्मण्डूकप्लुत्या यस्यादिरित्यनुवर्तते । तेनेडादिः प्रत्ययो लभ्यते, न तूत्तमैकवचनमिट् । तथाहि सति 'विजिषीय'इत्यत्रैव स्यात् । "ओषिजीभयचलनयोः' (तु आ०१२९०रु०प०१४६१) इति विजिरिह गृह्यते न तु पृथग्भावार्थ इरित्, तस्यानिटकत्वादिति हरदत्तः । न च क्रादिनिय. माल्लिटीट् संभवत्येवेति वाच्यम्, तत्र कित्त्वेन गतार्थत्वादिति तस्य भावः । वस्तुतस्तु नेदं युक्तम् 'विवेजिथ' इति थलीट्सम्भवात्। पित्वेन कित्त्वाभावात् । तस्मात्कुटादिसाहचर्यात्तुदादेरेव ग्रहणं न तु जुहोत्यादेरिति बोध्यम् । नन्वेवं रुधादेरपि ङित्त्वात् 'उद्विजिता' इत्याद्युदाहरता माधवेन सह विरोध इति चेत्तहि व्याख्यानादेव. जुहोत्यादेरग्रहणमित्यस्तु । हरदतोकिस्तु दुष्टैवेति दिक। विभाषोर्णोः (अष्टा सू०१-२-३)। अस्मादिडादिप्रत्ययो डिद्वा स्यात्। ऊ[विता, ऊर्णविता । इडिति किम् ? ऊर्णवनीयम् । सार्वधातुकमपित् (अष्टा सू०१-२-४)। अपित्सार्वधातुकं द्धित्स्यात्। विनुतः । इह परत्र परशब्दप्रयोगात्कल्प्यमानो वतिः सप्तम्यन्तान कल्प्यो डितीव द्विदिति । तथा सति प्रतियोगिनि सप्तमीप्रसङ्गात् सार्वधातुके. ऽपितीति । पूर्वत्राप्येवमेव अणितीति, इटीति च सप्तमी स्यात् । श्रयते तु सर्वत्र प्रथमा । तस्मात्ततीयान्तादेव वतिडिता तुल्यं डिद्वदिति । अत एव 'पचेते' इत्यादौ डितो यत्कार्यम् "आतो डितः" (अष्टा सू०७-२-८१) इतीय सोऽपि भवति । नन्वेवं 'यादम्पती समनसा सुनुतः' इत्यत्र "ता. स्यनुदत्तेनिङन्त्' (अष्टा०सू०६-१-१८१) इति लसार्वधातुकानुदात्तत्वं स्यादिति चेत्?न. उपदेशग्रहणस्योभयसम्बन्धेन ङिदुपदेशाददुपदेशाचेति षाष्ठभाष्ये व्याख्यातत्वात् , अन्हिङोरिति पर्युदासेनोपदेशे उकारवतो ग्रहणाद्वा । सप्तम्यन्ताद्वतिरित्येवंपरः षाष्ठवृत्तिग्रन्थस्त्वापातत इत्येष निष्कर्षः। अत्र 'पिञ्च डिन, डिच पिन्न भवति' इति वाक्यार्थद्वयं "ङितिच" (अष्टा०स०१-१-५) इति सूत्रे वर्णितमस्माभिः। भाष्ये तु "हलश्न: शानच्” (अष्टा सू०३-१-८३) इति सूत्रे स्थितमेतत् ।। असंयोगालिट् कित् (अष्टा०स०९-२-५)। असंयोगात्परोऽपिल्लिन कित् स्यात् । निन्यतुः, बिभिदतुः। अपित्किम् ? बिभेद । असंयोगा. त्किम् ? सस्रसे। ङित्त्वे प्रकृते कित्करणं "यजादीनां किति" (अष्टा०स० ६-१-१५) इति सम्प्रसारणार्थम् । ईजतुः, ईजुः । पूर्वत्रापि कित्त्वं कुतो न

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 510