Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 10
________________ * श्रीः * भटोजीदीक्षितकृत शब्दकौस्तुभे। प्रथमाध्याये द्वितीयपादे प्रथममान्हिकम् । ----- . : ---.. -. गाङ्कुटादिभ्योऽञ्णिन्डित् (अष्टा०सू ०१-२-१) । गाडा शात्कुटादेश्व परेऽणितः प्रत्यया डिद्वत्स्युः । अध्यगीट । “विभाषा लुल ङोः” (अया. सू०२-४-५०) इतीडो गाङ् । इद विशेषणार्थ एव दि गाडादेशे उकारः इति “गाङ् लिटि" (अटा सू०२-४-१९) इति सूत्रे वक्ष्यते ! कुटिता, कुटि. तुम् । अगिकिम् ? कोटः । घन् । चुकोट)। 'व्यचेः कटादित्वमन. सीति वक्तव्यम्" (काल्वा०)। एतच्च पाठे "लिट्यभ्यासस्य" (अटा०सू ६-१-१७) इति सूत्रे भाष्ये पठितमपि सन्दर्भशुद्ध्यर्थ वृत्तिकृतह पठितम् । तुदादिगणे कुटादिभ्यः प्राक पठितस्य व्यचेः कुटादित्वं वार्तिकेनातिदि. श्यते । विचितुम्, विचिता । अनसि किम् ? 'उरुव्यचाः । अत्र हरदत्तःअनसीति पर्युदासांकृत्येवेदम् । तेनेह न-विन्यचिथ, अव्याचीत् , अव्यनीत । केचित्त प्रसज्यप्रतिषेधपाश्रित्य थलादिष्वपि डिस्वमाहः। तत्त वाक्यमेदादसमर्थसमासाच्चायुक्तमिति माधवोदयः। अथ कथं लिखितुं, स्वयमेव लिखिप्यते इति ? अत्र दुर्घटादयः-कण्वादिभ्य इत्यत्रेव षष्ठीतत्पुरुषबहुव्रीह्योः सहविवक्षया बहुव्रीहिशेषोऽयं कुटादिभ्य इति । तेन लिखेरपि कुटस्यादितयाऽत्र सङ्ग्रह इति । तन्न, "शकुनिष्वालेखने" (अष्टा०म०६-१-१४२) इति सौत्रप्रयोगविरोधात्तः, "रलो व्युपधात्" (अष्टा०स०१-२-२६) "ईश्वरे तोसुन्" (अष्टा-सू०३-४-१३) इत्यत्र वृत्तिग्रन्थविरोधाश्च । तत्र हि लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति, विलेखितुम्, इति प्रदर्शितम् । तस्मात्संज्ञापूर्वकतया समाधेयमिति हर दत्तः । कथं 'चुकुटिषति' इति, सनो डित्वाद्यजन्तादिव तमसङ्गात् ? मैवम्, उपदेशग्रहणानुवृत्त्योपदेशे यो ङित्तदन्तादात्मनेपदमिति व्या. ख्यानात्। ? अत्र "परस्मैपदानां" (अपा०स०३-४-८२) इत्यनेन णल् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 510