Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 12
________________ विधिशेषप्रकरणे कित्प्रकरणम् । कृतमिति चेत् ?'वक्तः' 'वयः' इत्यत्र सम्प्रसारणापत्तेः, 'जागृतः 'जाग्रति' इत्यत्र गुणापत्तेश्च। ङित्वे तु 'वच्यादीनां किति' इत्युक्तर्न सम्प्रसारणम् । "जागोऽविचिण्णङित्सु" (अष्टा०स०७-३-८५) इति पर्युदासान्न गुणः । 'ऋदुपधेभ्यो लिटः कित्त्वं गुगात्पूर्वप्रतिषेधेन" (का० वा०) । कित्त्वस्यावकाशः-ईजतुः, ईजुः । गुणस्थावकाशः-चेतति । ववृते, ववृधे इत्यत्र पूर्वविप्रतिषेधात्कित्त्वम् । ____ इन्धिभवतिभ्यां च (अष्टा-सू०१-२-६)। आभ्यां लिट् कित्स्यात् । समी. धे दस्युहन्तमम्। पुत्र ईधे अथर्वणः । बभूव, बभूविथ। इन्धेःसंयोगार्थ ग्रहणं भवतेस्तु पिदर्थम् । इन्धीत्युच्चारणार्थेनेकारेण निर्देशः "सुतियोः" (अ. ०स०३-४-१०७) इतिवत्, न तु "इश्तियो" (काभ्वा०) इतीका, नलो. पापत्तः। अत्र वार्तिकम्-"इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यमिति" अयमर्थः-इन्धेर्भाषायां "इजादेश्व"(अष्टा० सू०३-१-३६) इत्यामा भाव्यम्।छन्दसितु "अमन्त्रे" (अष्टा०सू०३.१-३५) इति प्रतिषेधाद्यद्यप्यानास्ति तथापि "छन्दस्युभयथा" (३-४-१९७)इति लिटः सार्वधातुकत्वे कित्वात् 'समीधे इति नलोपः । श्नमभावस्वार्धधातुकस्वात् व्यत्ययाद्वा । भुवोऽपि वुङ् नित्यत्वादेव गुणवृद्धी बाधिप्यते। न च शब्दान्तरप्राप्त्या वुगनित्य इति वाच्यम, कृताकृतप्रसङ्गित्वमात्रेणापि लक्ष्यानुरोधानित्यत्वस्याश्रयणात् शब्दान्तरप्राप्त्या स्वरभिन्नस्य प्राप्त्या चानित्यतायाः सिद्धान्ते बहुधा त्यतत्वात्। एषैव सत्रकृतोऽपि गतिः, 'ब. भूव' इत्यत्र वृद्धरनिग्लक्षणतया "कङितिच' इति निषेधासम्भवेन बुको नित्यताया एव शरणोकरणीयत्वात् । न च कित्स्वसामर्थ्यादनिग्लक्षणाया अपि वृद्धनिषेधः । 'अहं बभूव' इत्यत्र णित्त्वाभावपक्षे तथा थलि चरिता. र्थत्वात् । अत एव यङ्लुकि णल्थलोः 'बोभूव' 'बोभूविथ' इति नित्य त्वाद् वुकि सिद्धम् । न हि तत्र कित्त्व प्राप्नोति, श्तिपा निर्देशात् । तस्मा. देतत्सत्र न कर्तव्यमिति भाग्ये स्थितम् । अत्र काशिका, 'श्रन्थिग्रन्थिद. म्भिस्वञीनों वक्तव्यमिति" । यद्यप्येतदिह सत्रे भाष्ये नास्ति तथापि "मणीवादेन" इतिवन्नाप्रामाणिकम् । तथाच "अत एकहल्मध्ये' (अपा० स६-४-१२०) इत्येत्वाभ्यासलोपौ प्रति नलोपस्याभीयत्वेनासिद्धौ सत्यां "दम्भेश्च" (का०वा०) इति वार्तिकमारब्धम्। "आभात्" (अष्टा०स०६-४२२) सूत्रस्य प्रत्याख्यानात् "श्रसोरलोपः' (अष्टा०स०६-४-१११) इति त. परकरणेनानित्यत्वाद्वा नेदं वार्तिकमावश्यकमिति तु षष्ठे वश्यते । तथा "सदेः परस्य लिटि" (अष्टास-३-२१८) इति सत्रे "स्वञ्जासंख्यानम्" (का०वा०) इति वार्तिकस्य भाष्यकता परिपम्बजे' इत्युदाहरणं दत्त.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 510