Book Title: Shabda Kaustubh Part 01 Author(s): Bhattoji Dikshit Publisher: Choukhambha Sanskrit Series View full book textPage 8
________________ भूमिका । शब्दकौस्तुभ संशोधनकार्यम् । इतरे च मदीयगुरवः काशीस्थराजकीय संस्कृत विद्यालय प्रधा नाध्यापका धर्माधिकारी इस्युपाभिध पण्डितप्रवरनागेश्वरपन्तमहोदयाः । यत्पादाम्बुजसेवया मया धीरधिगता । यद्यद् विभूतिमत्सर्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ इति भगवदुक्के स्तदवताररूपाणां गुरूणां यथामति संक्षेपेणोपवर्णितं तदीयचरितं 'यजुहोषि यदश्नासि यत्करोषि ददासि यत् । तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति च भगवदुक्तेस्तदीयचरणेष्वेव सनति समर्प्यते ॥ संप्रार्थये च मुहुस्तान्प्रत्युपचीयतां भवचरणेषु अनुदिनं मामकीनोऽनुराग इति । एवं महामहोपाध्यायपदवीभाजां अशेषशास्त्राध्यापकानां पण्डितप्रवरधर्मप्राणलक्ष्मणशा स्त्रिचरणानामनुयायिना मया कृतज्ञेन तदीयचरणेषु विधीयन्ते कोटिशः प्रणामाञ्जलयः । यैरात्मानमिव नितरामुपकृतां मन्ये भरतभूमिम् । विद्यात्यागतपोमूर्तीनां येषां यशोराशिप्रकाशेन प्रकाशितमिदं करालकलिका लान्धीकृतमवनितलम् || नैसर्गिकी भूतदया प्राणाधिकवच धर्मरक्षोद्यमः सर्वत्र एषां प्रथितः । विद्वन्मण्डलाखण्डलानां पुण्यचरितानामेषां समधिकाऽनुकम्पाऽनुचरे आ सीत् । एवं काशीस्थराजकीय संस्कृत पाठशाला प्रधानाध्यापकान् 'नेने' इत्युपाभिध मित्रवरपण्डितगोपालशास्त्रिणोऽनेके धन्यवादा वितीर्यन्ते । यैरत्राधिकतरसाहाय्यप्रदानेनानुगृहीतोऽस्मि । एवमितरानपि सर्वान् प्रियसुहृदो विचक्षणप्रवरान् मुहुः संप्रार्थये यदत्र मदी दृष्टिपथमनागतं दोषं संशोधयन्तु, क्षाम्यन्तु च संशोधनकार्यप्रवृत्तिरूपं मदीयं साहसम् इति । विदुषामनुचरः नित्यानन्द पन्त गुरुचरणान्तेवासी पुणतामकरोपाभिधो मुकुन्द पन्तःPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 308