Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 20
________________ व्याकरणाध्ययनप्रयोजननिरूपणम् । स्मृतिरेवेति व्याख्येयम् । अङ्गत्वं चाङ्गत्वेन संस्तवात् । उक्तं हि शिक्षायाम मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ॥ शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते ॥ इति । उपकारकतयाऽप्यङ्गत्वम् । व्याकरणं हि अर्थविशेषमाश्रित्य स्वरविशेषादीन् विदधत् पदार्थविशेषनिर्णये उपयुज्यते । ज्योतिष. मपि स्वाध्यायोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयः ति । निरुक्तं तु व्याकरणस्यैव परिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां प्रायशस्तत्र सङ्ग्रहात् । छन्दोविचितिरपि गायव्यादिलक्षणद्वारा गायच्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते। शि. क्षापि वर्णोच्चारणप्रकारं दर्शयति । कल्पसूत्राण्यपि प्रकरणान्तरपठि. तस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयो. गं दर्शयन्ति । तस्मात्षडङ्गानि । तेष्वपि प्रधानं व्याकरणम्, पदपदा. विगमस्य व्याकरणाधीनत्वात्; वाक्यार्थज्ञानस्य तन्मूलकत्वात् । अत एव तस्य शिक्षायां मुखत्वेन निरूपणं कृतम् । मन्वादिस्मृतिप्वपि अङ्गाध्ययनविधयः प्रसिद्धा एव । तथा चाध्ययनविधियाकरणाध्य. यनस्यानुष्ठापक इति स्थितम् । तथाच सन्ध्योपासनादेरभावे प्रत्यवा. योऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्ठाने च बोध्यम् । __ रक्षाप्रभृतीनि फलान्तराण्यपि सन्ति । तथा च भाष्यम-"कानि पुनरस्य प्रयोजनानि । रक्षोहागमलध्वसन्देहाः प्रयोजनम्" इति । अत्र प्रयुज्यते प्रवर्त्यतेऽनेनेति करणल्युडन्तः प्रयोजयतीति कर्तृव्युत्पत्त्या बाहुलकात्कर्तृल्युडन्तो वा, उभयथापि प्रवर्तकविधिपरः पुल्लिङ्गः प्रयो. जनशब्द एकः। फलपरः क्लीबोऽपरः। उभयोः "नपुंसकम्" इति नपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम् । तत्र आगमः प्रवर्तकः, रक्षोहलाघवासन्देहास्तु फलानीति विवेकः । तत्र प्रवर्तक आगमो व्याख्यातः । फलानि व्याख्यायन्ते । ___ तत्र रक्षा वेदसंरक्षणम् । तथाहि, भाषायामदृष्टा लोपागमवर्णवि. काराश्छन्दसि दृश्यन्ते । ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्यर. न् । वैयाकरणस्तु लक्षणदर्शीतदेव रूपं स्थापयति । तत्र लोपोदाहरणम्-त्मना देवेषु विविदे मितद्रुः । त्मना आत्म.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 308