Book Title: Shabda Kaustubh Part 01 Author(s): Bhattoji Dikshit Publisher: Choukhambha Sanskrit Series View full book textPage 7
________________ भूमिका। इति मान्याः ॥ तत्र गुरोरित्येकवचनेन सर्वविद्यालाभ एकस्मादेव गुरोरिति सूचितमिति वदता शब्दरत्नकृता निखिलविद्यालाभः शेषश्रीकृष्णादेवेत्यमिहितम् । नात्र कस्यापि वैमत्यम् । शेषश्रीकृष्णपन्तश्च निखिलपण्डितमण्डलाखण्डल: रामचन्द्रप्रणीतप्रक्रिया. कौमुदीव्याल्या प्रक्रियाप्रकाशाभिधां चकार । एवमेतत्प्रणीतो न्यासग्रन्थो गुरुचरणानां दृष्टिपथमुपागतोपि तल्लाभाय प्रयतमानरस्माभिरनुष्ठितो भुयान् परिश्रमो विफलतामुप. गत इति नितरां तेन दूयामहे वयम् । प्रथिता चैषां दाक्षिणात्येषु द्वितीयसपर्या ॥ कराले प्यस्मिन्कलिकालेऽनुदिनं तदन्वयसमुद्भूतैराहिताग्निभिरनुष्ठीयतेऽग्निहोत्रम् ॥ स्पर्धा निरल्यास्य भवने श्रियो वाग्देव्याश्च निवासः । एवमन्येपि तदन्वये सदसि वाक्पटवः धीरधिषणावधीरितवाचस्पतयः वेणीराम भाईराम भिकूजीशर्माणो विद्वत्तमाः समु. दूताः। येषामद्यापि यशोराशिरुपवर्ण्यते काशीस्थैर्वृद्धसूरिभिः । वेणीरामछात्रेषु सदसि लब्धसमानाः शब्दशास्त्रपारावारपारीणाश्चतुर्धरोपनामकदीक्षितवैद्यनाथशर्माणो मदीयमा. तामहचरणाः। यदीयतपःप्रभावादिदं दुष्करं शब्दकौस्तुभप्रकाशनकायं मयाऽकारि । 'महोजिदीक्षितस्य पुत्रो वीरेश्वरदीक्षितः, 'तदीयः पुत्रो हरिदीक्षितः 'तदीयशिष्यश्च नागे. शमह 'तदीयः पायगुण्डोपाभिधो वैद्यनाथः' । 'तदीयाश्छात्रा घुलोपामिध सदाशिव. भट्ठाः। येषां सदसि उच्चासनोपवेशनं विप्रतिपत्तिनिर्णायकता च तदानी प्रसिद्धा । गुरूणां प्रथमः अष्टपुत्रे इत्युपाभिधः अप्रतिमप्रतिभः काशीनाथशास्त्री पेशवामहोदया. भितश्रीमज्जगनाथशास्त्रिणामन्तेवासी सदसि तदीयं निर्णयं नाङ्गीकुरुते स्म । प्रत्याख्यातं व तेन तदुकम् । अथ तत्र समेतैः सभ्यैरन्याय्यमनेनानुष्ठितमिति सभायामनिमन्त्रणं नितम् । धीरेण निजेष्टदेवतासहायेन तेन धनिकानां साहाय्यं कालेनाऽऽसादितम् । तदानी स्वयमेव समाविधानं तेषां च तत्राद्वानं विप्रतिपत्तिप्रदर्शनं चेत्याद्यकारि । महाश्व भोसले' इत्युपामिध नागपूर महाराजाल्लब्धसंमानास्तत्सकाशात्संप्राप्य स्थिर. तरां वृत्तिं तत्रैव जग्मुः। अधुनापि तदन्वयसंभृतास्तत्र विराजन्ते विद्वांसः। तदा प्रभृति काश्यामेकः काशीनाथ एवासीत् । य इमां परिष्कारशैलीमाततान ॥ जगन्नाथ वास्त्रिणाम. न्तेवासी अपरोऽपि गणेशशासी सराफाभिधस्तत्सतीखें गुरुकृपाभाजनं 'समधिकवि. भव.पत्रः कालेनाहकृतिमापनोऽयं इत्येवं रूपेण गुरुदृष्टिपथमुपगतेन काशीनाथशाषिणा सह शास्त्रविचारे प्रवृत्तस्तं विजिगायेति गुरुजनमुखाच्छ्रुतमस्माभिः । अथ काशीनाथशा. चिणामन्तेवासिनो अशेषशास्ाध्यापको यागेश्वरपण्डितकालेंकरराजारामशामिणौ । तेषु गवर्नमेण्टसंस्थापितसंस्कृतकालेजप्रधानाध्यापक: पण्डितराजराजारामशास्त्री राजसंमा. मितः स इमां परिष्कारशैली समधिकामाततान । विद्याविनयवित्तेभ्यइव रम्यतरेण वपुषा विराजमानस्य तस्य 'बालशासीत्यभिधः 'रानडे इत्युपाभिधश्च' एकपछात्रोऽतिकृपाभाजन सारस्वतसर्वस्वमिवासीत् । सोमयाजिनोऽस्य सदसि वाक्पटुता अनन्यसहशी प्रथिता । तथा नीतिविशारदस्य राजगुरोरगावमेधस्य तस्य चत्वारपछात्रा आसान । य एते महा. महोपाध्यायपदवीभाजः पं० दामोदरशास्त्री पं० शिवकुमारशास्त्री पं० गुरुवरगङ्गाधरशासी सी० आई० ई० पं. रामकृष्णशास्त्री इत्यभिधेयाः पण्डितशिरोमणयः, तदलकृतेयं वाराणसी तदानी हसन्तीवामरपुरीमासीदिति शानुभूतं निवेदयामः । अथैषां साक्षा. त्परम्परया वा सर्वेऽपि प्रायेण इदानीन्तना विद्वांसाठात्रा एव । अनन्यसहशां कुल. पतिकल्पानामेषां भूयःसु छात्रेषु प्रथमाः महामहोपाध्यायपदवीभाजो मदीयगुरवः पण्डि. तबरनित्यानन्दपन्त पर्वतीयचरणाः । यत्सानिधानेम तदीयगणैकलेशभाजा मया समापितंPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 308