Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 13
________________ ४ शब्द कौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निके— स्यादेतत्, गौरित्यादिः शब्द इह विषयः । तत्र च गकार औ• कारो विसर्गश्च घटकः । व्युत्पाद्यते तु डोप्रत्ययसुप्रत्ययवदेशादिकम् । न चैतद्रौरिति बोधे भासते । तथाचार्थान्तरता । गौरित्यनेन परिनिष्ठितेन सह डोप्रभृतीनां सम्बन्धविशेषस्तत्प्रतिपत्त्युपयोगिता चास्तीति तद्व्युत्पादनमिति चेत् ? न, शब्दान्तरव्यावृत्तस्य स. म्बन्धस्य उपयोगस्य च दुर्वचत्वात् द्रव्यगुणादिपदार्थानामिह व्युत्पाद्यतापत्तेश्च । अस्ति हि तेषां गौरित्यमेन वाच्यवाचकभावादिः सम्बन्धः । अत एव शाब्दबोधे गवि समवायेन गोत्वमिव शक्तयाख्यसम्बन्धेन शब्दो विशेषणतया भासते । चाक्षुषबोधेऽपि व्यक्तथा स्मारितः शब्दो विशेषणमित्यभ्युपगमः । आह चन सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वे शब्देन भासते । ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति । यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ॥ पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति च । युक्तं चैतत् गृहीतशक्तिकं प्रति शब्देनार्थस्येव अर्थेन शब्द - स्यापि स्मरणे बाधकाभावात् । अत एव गोत्वस्येव गोशब्दस्यापि व्यक्तिविशेषणस्वाविशेषात्संसर्गेऽपि तादात्म्यमेवास्तु । एवं गोगुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयेन "अथ गौरित्य त्र कः शब्दः" इति प्रघट्टके द्रव्यगुणकर्मसामान्यैः सह शब्दस्याभे. दो माध्यकृद्भिराशङ्कय निराकृतः । तत्र निराकरणग्रन्थस्यायमाश. यः - समसत्ताकभेदाभेदौ विरुद्धावेव । अन्यथा त्वदुक्तरीत्या सत्तागुणत्वाद्यभेदात्सुखदुःखस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्ति व्यवस्था न स्यात्, न स्याच्च भेदग्रहाद् भ्रमनिवृत्तिः । जातिव्यक्त्यादिसम्बन्धस्त्वतिरिक्त एवेति । एवमेव शब्देनापि सहास्येव सम्बन्धो द्रव्यादीनामिति स्थितम् । अस्ति च द्रव्यादिव्युत्पादनस्थ प्रकृते उपयोगोऽपि । अस्मिन्नर्थेऽयं साधुरित्यर्थविशेषं पुरस्कृत्यैव साधुत्वस्य वक्तव्यत्वात् । अत एव वाजिनि दरिद्रे च क्रमेण अश्वशब्दो अस्वशब्दध साधुयुत्क्रमेण त्वसाधुरिति सिद्धान्तः । ननु यथा वैशेषिकादीनामेतच्छास्त्र सिद्ध मेव प्रकृतिप्रत्यय वि. भागमुपजीव्य पदार्थव्युत्पादनाय प्रवृत्तिः प्रकृतिप्रत्ययादिविचारस्तु 9

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 308