Book Title: Savruttikam Uttaradhyayan Sutram Part 02 Author(s): Unkonwn Publisher: ZZZ Unknown View full book textPage 4
________________ षोडशमध्ययनम् (१६) उत्तराध्ययन उन्मादं वा कामग्रहात्मकं प्राप्नुयात् , योषिद्विषयाभिलापविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालभावि ॥३२०॥ रोगश्च दाहज्वरादिः आतङ्कश्चाशुघाती शूलादिः रोगातंकं भवेत् , सम्भवति हि रमणीयरमणीरमणाभिलाषातिरे कादरोचकित्वं, ततश्च दाहज्वरादीति । केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताद्दश्यत् , कस्यचित् क्लिष्टकर्मोहै दयाद्धर्मभ्रंशस्यापि सम्भवात् , यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥४॥१॥ उक्तं समाधिस्थानं प्रथम, द्वितीयमाहमूलम्–णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह-निग्गंथस्स खल इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिकं वा रोगायक हविजा, केवलिपण्णत्ताओ वा| धम्माओ भंसिज्जा, तम्हा खल निग्गंथे नो इत्थीणं कहं कहिजा ॥५॥ __ व्याख्या-नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रवन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निर्ग्रन्थो नत्वन्य इति भावः। तत्कथमित्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥५॥ तृतीयमाह ॥३२०॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 596