Book Title: Savruttikam Uttaradhyayan Sutram Part 02 Author(s): Unkonwn Publisher: ZZZ Unknown View full book textPage 3
________________ १२ भेअं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालिअं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिजा, तम्हा नो इत्थिपसुपंडगसंसत्ताइं सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ ४ ॥ व्याख्या - तद्यथेत्युपन्यासे विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्धो भवतीति शेषः । इत्थमन्वयेनोक्त्वा अल्पमतिविनेयानुग्रहार्थम मुमेवार्थं व्यतिरेकत आह| नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह - अत्रोच्यते, निर्ग्रन्थस्य खलु निश्चितं स्त्री पशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बंभयारिस्सत्ति' अपेर्गम्यत्वाद्ब्रह्मचारिणोपि सतो ब्रह्मचर्ये शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का ख्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ! ॥ १ ॥" इत्यादि रागातुरखचः परिभावयतो मिथ्यात्वोदयात्कदाचित्तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं संशय उत्पद्यते । कांक्षा वा ख्यादिवाञ्छारूपा “प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥ १ ॥ इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा ? तद्वरमेतदासेवनमेवास्तु ! इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत । षोडशमध्ययनम् सू ४Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 596