Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 356
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८१] .” “नियुक्ति : [६३९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३९|| कर्मणा च संयोजयति भवं ' दीर्घतरं संसार, तस्माच्च भवादीर्घतरसंसाररूपात् 'दुःखम् ' असा संयोजयति, ततो यो द्रव्यसंयोजना करोति तस्येत्थमनन्तकालसंवेद्यो दुःखनिपात इति । सम्पत्यस्या एव द्रव्यसंयोजनाया अपवादमाह। पत्ते य पउरलंभे भुत्तुव्वरिए य सेसगमणट्ठा । दिट्ठो संजोगो खलु अह कम्मो (कमो) तस्सिमो होइ ॥६४०॥ ___ व्याख्या-'प्रत्येकम् ' एकैकं साधुसङ्घाटकं प्रति 'प्रचुरलाभे' विपुलघृतादिप्राप्तौ सत्यां यदि कथमपि भुक्ते सति 'चः' समुवाये शेष-उद्धरितं भवति, ततस्तस्य शेषस्य निर्गमनाथ दृष्टः-अनुज्ञातस्तीर्थकरादिभिः खलु संयोगः, उद्धरितं हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तं शक्यते, प्रायस्तृप्तत्वात, न च परिष्टापन युक्तं, घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि कीटिकादिसत्त्वव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् , तत उद्धरितघृतादिनिर्गमनार्थ खण्डादिभिरपि तस्य संयोजन न दोषायएष तावदयमपवादः संयोजनायाः । अथान्योऽपि तस्य संयोगस्यायं-वक्ष्यमाणः क्रमो भवन परिपाटीरूपो भवति ।। तमेवाह रसहेउं पडिसिहो संयोगो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य ॥ ६४१॥ व्याख्या-रसहेतोः गृद्धया रसविशेषोत्पादनाय संयोगः प्रतिषिद्धस्तीर्यकरादिभिः, यावता पुनः स एव संयोगो 'मलानाथ ग्लानसज्जीकरणार्थ कल्पते, यद्वा यस्य ' अभक्तच्छन्दः' भक्तारोचकः, यश्च मुखोचितो-राजपुत्रादिः यथाद्याध्यभावितः-असञ्जातसम्यक्परिणामः शैक्षकस्तस्य निमित्वं कल्पते । उक्तं संयोजनाद्वारम्, अथाहारममाणद्वारमाह- . ___ बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसरस महिलियाए अट्ठावीसं भवे कवला ॥६४२॥ दीप अनुक्रम [६८१] ~356

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376