Book Title: Saravali
Author(s): Kalyanvarman, V Subhramanya Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 186
________________ सारावली । स्वोच्चनीच त्रिकोणक्षं केन्द्रं शत्रुगृहं तथा । पञ्चप्रकारसंयुक्ता दशा भानोः प्रकीर्तिताः ॥ ५३ ॥ राज्यं ददाति विपुलं दशा रखेर्लग्नसंस्थितस्य नृणाम् । केन्द्रस्थितस्य दद्यात्कटिंगल नेत्र प्रकोपमरिगस्य ॥ ५४ ॥ नीचस्य दशा भानोरक्ष्णोर्नाशं ज्वरं शिरोरोगम् । बन्धनमन्याश्च रुजः कुष्ठामयदर्शनं चिह्नम् ॥ ५५ ॥ स्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरणस्य । तुरगातपत्रचामरकरीन्द्रसंवर्धितं सम्यक् ॥ ५६ ॥ सवितुर्दशा च पुसो विदधाति पुरा त्रिकोणसंस्थस्य । उत्तमविषयपतित्वं विध्वस्ताशेषदुःखस्य ॥ ५७ ॥ शत्रुगृहेऽर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम् । ज्वालावऋजरोगा भवन्ति कृमयः परिभवाश्च ॥ ५८ ॥ अष्टमगतस्य भानोर्दशा क्षयं नयति सर्वगात्रं च । भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम् ॥ ५९ ॥ सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन । स्वोच सुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्णे च ॥ ६० ॥ तत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम् । कथयति नलिनीशत्रोर्मित्रदशा स्वजनसम्प्राप्तिम् ॥ ६१ ॥ क्षीणेन्दुदशायोगे चिह्नान्येतानि लक्षयेद्विद्वान् । उदरामयज्वरशिरोनयनोत्कोपप्रतिश्रयाच्चापि ॥ ६२ ॥ बलिनः परिपूर्णस्य च शशिनः कुरुते सदा दशा पुंसाम् । दयितासहस्रपरिवृतमन्तःपुरमुत्तमस्त्रीकम् ॥ ६३ ॥ भवति नरस्य भ्रंशो विषयस्यान्तःपुरस्य भृत्यानाम् । अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूतः ॥ ६४ ॥ यत्रतृणकाष्ठगोमयवंशकरञ्जीफलोदकाजीवी । भवति कदन्नकुचेली नृपोऽपि भृतकोऽरिगृहदशायाम् ॥ ६५॥ लग्नगृहगस्य हि दशा मण्डललाभं तथोच्चगस्यापि । केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम् ॥ ६६ ॥ १ स्वरा . २ कुनयः . १७० Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268