________________
सारावली ।
स्वोच्चनीच त्रिकोणक्षं केन्द्रं शत्रुगृहं तथा । पञ्चप्रकारसंयुक्ता दशा भानोः प्रकीर्तिताः ॥ ५३ ॥ राज्यं ददाति विपुलं दशा रखेर्लग्नसंस्थितस्य नृणाम् । केन्द्रस्थितस्य दद्यात्कटिंगल नेत्र प्रकोपमरिगस्य ॥ ५४ ॥ नीचस्य दशा भानोरक्ष्णोर्नाशं ज्वरं शिरोरोगम् । बन्धनमन्याश्च रुजः कुष्ठामयदर्शनं चिह्नम् ॥ ५५ ॥ स्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरणस्य । तुरगातपत्रचामरकरीन्द्रसंवर्धितं सम्यक् ॥ ५६ ॥ सवितुर्दशा च पुसो विदधाति पुरा त्रिकोणसंस्थस्य । उत्तमविषयपतित्वं विध्वस्ताशेषदुःखस्य ॥ ५७ ॥ शत्रुगृहेऽर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम् । ज्वालावऋजरोगा भवन्ति कृमयः परिभवाश्च ॥ ५८ ॥ अष्टमगतस्य भानोर्दशा क्षयं नयति सर्वगात्रं च । भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम् ॥ ५९ ॥ सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन । स्वोच सुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्णे च ॥ ६० ॥ तत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम् । कथयति नलिनीशत्रोर्मित्रदशा स्वजनसम्प्राप्तिम् ॥ ६१ ॥ क्षीणेन्दुदशायोगे चिह्नान्येतानि लक्षयेद्विद्वान् । उदरामयज्वरशिरोनयनोत्कोपप्रतिश्रयाच्चापि ॥ ६२ ॥ बलिनः परिपूर्णस्य च शशिनः कुरुते सदा दशा पुंसाम् । दयितासहस्रपरिवृतमन्तःपुरमुत्तमस्त्रीकम् ॥ ६३ ॥ भवति नरस्य भ्रंशो विषयस्यान्तःपुरस्य भृत्यानाम् । अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूतः ॥ ६४ ॥ यत्रतृणकाष्ठगोमयवंशकरञ्जीफलोदकाजीवी । भवति कदन्नकुचेली नृपोऽपि भृतकोऽरिगृहदशायाम् ॥ ६५॥ लग्नगृहगस्य हि दशा मण्डललाभं तथोच्चगस्यापि । केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम् ॥ ६६ ॥
१ स्वरा . २ कुनयः .
१७०
Aho! Shrutgyanam