________________
एकचत्वारिंशोऽध्यायः ।
१७१
केष्टदशा व्यसनकरी मरणं च करोति नैधनस्थदशा । अस्तमितग्रहपाको बन्धनमात्रेण पीडयति ॥ ६७ ॥ वक्रोपगस्य हि दशा भ्रमयति च कुलालचक्रवत्पुरुषम् । व्यसनानि रिपुविरोधं करोति पापस्य न शुभस्य ॥ ६८ ॥ रिक्तातिरिक्तनिम्नातिनिम्न रिपुह तिरिपुगृहदशासु । पृथ्वीपतिरपि भूत्वा स्वभृत्यभृत्यो भवेत्पुरुषः ॥ ६९ ॥ देशत्यागो व्याधिभ्रंशोत्थानं मुहुर्मुहुः कलहः । बन्धनमरातिजनितं रिपुराशिगतस्य हि दशायाम् ॥ ७० ॥ महितकरिगलितमदजलसेकक्ष्मापीठवारितरजस्कः । राजा कष्टसहायो रिक्तदशायां ध्रुवं भ्रमति ॥ ७१ ॥ अङ्गप्रत्यङ्गानां छेदं विदधाति षष्ठशत्रुदशा | कोणद्यूनारिदशा निधनारिदशा शिरश्छेदम् ॥ ७२ ॥ रिपुभयविदेशगमनं बन्धनरोगादिपीडनं भवति । नीचस्थ ग्रहपाके राजाभिभवो ध्रुवं पुंसाम् ॥ ७३ ॥ चिन्ता स्वाप्नानुभवैः परिणमति फलं विहीनवीर्यस्य । पञ्चमहापुरुषोक्ताध्यायांस्तांस्तान्नियोजयेदत्र ॥ ७४ ॥ आदौ दशासु फलदः शीर्षोदयराशिसंस्थितो विहगः । उभयोदये च मध्ये स्वान्त्ये पृष्ठोदये च नीच ॥ ७५ ॥ इति कल्याणवर्मविरचितायां सारावल्यां मूलदशाफलं नाम चत्वारिंशोऽध्यायः ॥
एकचत्वारिंशोऽध्यायः ।
अर्धमेकस्थितो भागं त्रिभागं सुतधर्मयोः । सप्तमे सप्तमं भागं चतुर्थं चतुरेंश्रयः ॥ १ ॥ मूलं दशाधिनाथस्य कृत्वांशं स्वगुणैर्ग्रहः । करोत्यन्तर्दशां सत्यां बली हरति भागशः ॥ २ ॥ शुभस्य शुभदः पूर्णः क्रूरस्याशुभदो भवेत् । केन्द्रादिविधिना चान्ये केचित्पाकक्रमेण तु ॥ ३ ॥
१ षष्ठदशा . २ व्यसनानि. ३ तुच्छातितुच्छ. ४ चतुरश्रये. ५ भागभाक्.
Aho! Shrutgyanam