________________
सारावली ।
सत्योक्तं तृच्यते कश्चिद्ददाति बलवान्ग्रहः । नित्यं पाठक्रमात्कार्यः शेषास्तु परिपाकदाः ॥ ४ ॥ भागाः सदृशाः सहिता दशाब्दपिण्डस्य भागहारोऽयम् । प्रत्यंशताडितः स्यात्पृथक्पृथक्त्वन्तरदशाः स्युः ॥ ५ ॥ एकर्क्षसंस्थितदशा प्रदिशति बन्धं स्वनाशं वा । जनयति कण्टकसहिता त्रिकोणसंस्थस्य सुखमतुलम् ॥ ६ ॥ एकद्वित्रिचतुर्णां नक्षत्रे रिपुदशा ग्रहाणां स्यात् । व्याधिक्लेशविवादान्नृपतेश्च भयं तदां जनयेत् ॥ ७ ॥ दारमरणं च जनयति सप्तमगान्तर्दशा प्रणाशं वा । शत्रोर्दासीकरणं परपुरुषेणोपभोगं वा ॥ ८ ॥ अन्तर्दशा ग्रहाणामष्टमधानि प्रमापयेत्पुरुषम् । कुरुते च धनविनाशं शत्रुगता बन्धनं च विध्वंसम् ॥ ९ ॥ अन्तर्दशा यदा ( स्यात् ) द्वित्रिचतुर्णामेकराशिसंस्थानाम् । बन्धनविनाशदैन्ये विदधात्यशुभं ग्रहाणां तु ॥ १० ॥ चतुर्थस्थानसंस्थस्य ग्रहस्यान्तर्दशा भवेत् । मित्रारोग्यकरं नित्यं सौख्यमानविवर्धनम् ॥ ११ ॥ शमयति रिपुप्रतापं नीरोगत्वं करोति धनलाभम् । भानुदशायां चन्द्रः प्रविशंस्तन्नास्ति यन्न शुभम् ॥ १२ ॥ विद्रुमसुवर्णमणयः सङ्ग्रामजयः प्रचण्डता पुंसः । असृजो दशाप्रवेशे सूर्यदशायां भवति सौख्यम् ॥ दविचर्चिकाद्यैः पाम्ना कुष्ठैश्च गर्हितशरीरः । तरणिदशायां प्रविशति बुधो यदा स्यादरेवृद्धिः ॥ १४ ॥ व्याधिभिररिभिर्व्यसनैः पापैश्च विमुच्यते तथाऽलक्ष्म्या । अनुयाति धर्मपदवीं जीवस्यान्तर्दशा यदा भानोः ॥ १५ ॥ शिरसो रुग्गलरोगरिछद्रं सहसा ज्वरः शूलम् । तपनदशायां शुके देशत्यागो भवेदरिभिः ॥ १६ ॥ आदित्यस्य दशायां शनैश्चरान्तर्दशा यदा भवति । नृपपरिभूतो दीनो विपक्षसार्थेन हतशक्तिः ॥ १७ ॥ १ चान्तर. २ तथा. ३ दैन्यं. ४ करी. ५ वर्धनीम्.
१३ ॥
१७२
Aho! Shrutgyanam