________________
एकचत्वारिंशोऽध्यायः।
१७३ क्षयरोगभयं शौर्य नृपप्रभावं सदा विभवम् । चन्द्रदशायां पुंसो भानुः कुरुतेऽर्थलाभं च ॥ १८॥ पित्तासृग्वह्निभयं क्लेशं रोगं करोति वक्रदशा । चन्द्रदशायां च भयं प्रमोषणं चैव चोरैश्च ॥ १९॥ चन्द्रदशायां ज्ञदशाप्रवेशने चिह्नमुत्तमो लाभः । गजवाजिनां धनानां सम्प्राप्तिः सौख्यमतुलं च ॥ २० ॥ चन्द्रदशायां प्राप्ता त्रिदशेड्यदशा करोति धनलाभम् । यत्नोपात्तमकस्माद्वस्त्रालङ्कारविविधहस्त्यश्वम् ॥ २१ ॥ तुहिनकरस्य दशायां प्रविशत्यन्तर्दशा यदाऽऽस्फुजितः । जलयानहारभूषणबहुपत्नीभिः समागमं कुरुते ॥ २२ ॥ स्वजनायासवियोगं रोगाभिभवं तथा महाव्यसनम् । चन्द्रदशायां सौरिः करोति निःसंशयं पुंसाम् ॥ २३ ॥ चण्डं साहसनिरतं नरेन्द्रसंग्रामपूजितं धांच्याम् । विविधधनागमयुक्तं भौमदशायां करोति रविः ॥ २४ ॥ विविधधनागमलाभं सौख्यं बहुमित्रसम्प्राप्तिम् । वक्रदशायां चन्द्रः करोति मुक्तामणिप्रभृतीन् ॥ २५॥ दिशति भयं शत्रुभ्यो वाजिगजानां प्रमोषणं चोरैः । दाहं च यदा प्रविशति भौमदशायां बुधस्य दशा ॥२६॥ वऋदशायां च गुरोः सुचरितकरणेन शुभधर्मा । नृपतिर्विशुद्धचेताः पुण्यानि करोत्यनन्तानि ॥ २७ ॥ रुधिरदशायां शुक्रप्रवेशने भवति सङ्गरभयार्तिः । व्याधिव्यसनायासैर्धनापहारः प्रवासैश्च ॥ २८॥ व्यसनानि व्यसनानां भवन्त्युपर्युपरि जनविनाशश्च । वक्रदशायां रविजे प्रविशति चान्तर्दशायां हि ॥२९॥ इन्दुसुतस्य दशायां प्रविशति सूर्यो यदा तदा चिह्नम् । कनकाश्वविद्रुमगजान् विदधाति श्रियमकस्माच ॥३०॥ प्रविशन्ती चन्द्रदशा बुधस्य कण्डूं करोति कुष्ठं च ।
क्षयरोगमङ्गभङ्गं गजाद्भयं वाहनविनाशम् ॥ ३१ ॥ १ प्रमापणम्. २ धन्यं.
Aho ! Shrutgyanam