________________
१७४
सारावली । रिपुरोगपापमुक्तः पुण्यानि करोति भूपतेर्मत्री । जीवे चरति दशायां बुधस्य पुरुषो भवेन्नियतम् ॥ ३२॥ मस्तकशूलनिरोधैर्नानाक्लेशैश्च युज्यते जन्तुः। इन्दुसुतस्य दशायां भौमस्यान्तर्दशा यदा भवति ॥३३॥ गुरुविबुधातिथिभक्तो वस्त्रालङ्कारपुष्पगन्धरुचिः । इन्दुसुतस्य दशायां शुक्रस्यान्तर्दशा यदा भवति ॥ ३४ ॥ पण्डमुखकामसेवी विलुप्तधर्मार्थभोगसुतवित्तः । भवति नरोऽत्र दशायां बुधस्य मन्दो यदा चरति ॥३५॥ रिपुभयकलहैमुक्तः प्रयाति गुरुतां नरेन्द्रस्य । विक्रमसाहससौख्यैर्जीवदशायां रवौ चरति ॥ ३६॥ पत्नीसहस्रभर्ता जितरोगरिपुः परोन्नतिं लभते । प्रकटयति राजचिह्नं चन्द्रदशा गुरुदशायां हि ॥ ३७॥ तीक्ष्णः परोपतापी शूरो रणलब्धकीर्तिधनः । सौख्यमनन्तं लभते जीवदशायां कुजे चरति ॥ ३८॥ वेश्यामद्यव्यसनैः परिभूतो भवति निर्धनः सोऽपि । सौम्ये जीवदशायां विलुप्तधर्मो भवेत्पुरुषः ॥ ३९ ॥ व्याधिविनाशं सौख्यं मित्रैः सह सङ्गतिं तथा पूजाम् । मातापित्रोभक्तिं जीवदशायां बुधे लभते ॥ ४० ॥ रिपुभयविनाशदुःखैरभिभूतो ब्राह्मणोपजीवी च । जीवदशायां शुक्र प्रविशति नित्यं भवेत्पुरुषः ॥४१॥ वेश्यामद्यधूतैरभिभूतो महिषखरयुक्तः । सौरे जीवदशायां विलुप्तधर्मों भवेत्पुरुषः॥४२॥ गण्डोदराक्षिरोगैः क्षितिपतितो बन्धनादिभिस्तप्तः । शुक्रदशायां सूर्ये विचरति नूनं भवेत्पुरुषः ॥४३॥ अन्तर्दशा दशायां सितस्य शशिनो यदा भवति चिह्नम् । नखदशनशिरोरोगैः सह भवति च कामिलारोगः ॥ ४४ ॥ पित्तामुक्कृतरोगो भूलाभः संश्रयो नृपतितश्च ।
शुक्रदशायां भौमे मन्दोत्साहः पुमान्भवति ॥ ४५ ॥ १ विरोधैः. २ निर्धनो भवति. ३ बुधो.
Aho ! Shrutgyanam