________________
एकचत्वारिंशोऽध्यायः ।
शुक्रदशायां पुंसां बुधस्य चान्तर्दशा यदा भवति । युवतिकृतं धनलाभं सौख्यं च मनोरथं लभते ॥ ४६॥ अन्तर्दशा दशायां भृगोर्गुरोर्धर्मशीलसम्पत्तिम् । विदधाति विषयराज्यं पुंसां धनरत्नमतिसौख्यम् ॥ ४७ ॥ वृद्धस्त्रीभिः क्रीडां पुरनगरगणाधिपत्यमरिनाशम् । शुक्रदशायां सौरिः करोति बहुमित्रसंयोगम् ॥ ४८॥ धनपुत्रदारनाशं भयमतुलं संदधाति पुरुषस्य । रविपुत्रस्य दशायां सूर्यस्यान्तर्दशा न सन्देहः ॥४९॥ स्त्रीमरणं हरणं वा बन्धुवियोगं पुनः पुनः कलहम् । अन्तर्दशा दशायां शनेः शशाङ्कस्य विदधाति ॥ ५० ॥ देशभ्रंशं व्याधिं दुःखानि करोत्यनेकरूपाणि । अन्तर्दशा दशायां रविजस्य महीसुतस्य यदा ॥ ५१ ॥ सौभाग्यसौख्यविजयप्रमोदसत्कारमानधनलाभम् । सौरिदशायां सौम्यो विदधात्यन्तर्दशाप्राप्तः ॥ ५२ ॥ अनुयाति शिष्टपदवीं ग्रामादिकलत्रसौख्यसंपन्नः । रवितनयस्य दशायां प्रविशति जीवे सदा पुरुपः ॥५३॥ वर्धयति मित्रपक्षं भिनत्ति शोकान्यशः प्रकाशयति । सौरदशायां शुक्रः पत्नीधनविजयलाभकरः ॥ ५४ ॥ नीचोच्चादिविभेदेन शत्रुमित्रबलाबलम् ।। अन्तर्दशासु मतिमांश्चिन्तयेच प्रयत्नतः ॥ ५५ ॥ अन्तर्दशा शुभायां मूलदशायां शुभा यदा भवति । भवति तदा बहुसौख्यं धनलब्धिरतीव पुरुषाणाम् ॥५६॥ रविकिरणमुषितदीप्तेर्दशा ग्रहस्य मलिनां तनुं कृत्वा । मानयशोर्थविलासप्रतापरूपोद्यमान्हन्ति ॥ ५७ ॥ होरा जन्माधिपतेः शत्रुदशायां नरोऽतिमूढमतिः । राज्याच्युतो विपक्षैरभिभूतोऽन्यं समाश्रयति ॥ ५८॥ व्योमलग्नप्रपन्नस्य दशायां राज्यमाप्नुयात् ।।
नरेन्द्राणां समायोगे सुवीर्यस्याथवा पुनः ॥ ५९॥ १ मनोरमं. २ संपत्तिम्. ३ धिपयोः. ४ विमूढ.
Aho! Shrutgyanam