SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७६ सारावली। लग्ने जीवः सितबुधयुतः सप्तमस्थोऽर्कपुत्रः कर्मप्राप्तो दहनकिरणो भोगिनां जन्म कुर्युः । केन्द्रे सौम्या न शुभगृहगा यत्र पापाभिधाना - यद्येवं स्याच्छबरनृपतिर्जायते वित्तवांश्च ॥६०॥ इति कल्याणवर्मविरचितायां सारावल्यां अन्तर्दशाफलो नामैकचत्वारिंशोऽध्यायः॥ द्विचत्वारिंशोऽध्यायः। क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशां यदा कुरुते । पुंसः स्यात्सन्देहस्तदाऽरियोगः सदैव महान् ॥ १ ॥ क्षितितनयस्य दशायां रविजस्यान्तर्दशा यदा विशति । बहुकालजीविनामपि मरणं निःसंशयं कुरुते ॥२॥ क्रूरराशौ स्थितः पापः षष्ठे स्यान्निधनेऽपि वा। तत्स्थितेनारिणा दृष्टः स्वपाके मृत्युदो ग्रहः ॥३॥ विलग्नाधिपतेः शत्रुर्लग्नस्यान्तर्दशां गतः । करोत्यकस्मान्मरणं सत्याचार्यः प्रभाषते ॥ ४ ॥ इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टफलं नाम द्विचत्वारिंशोऽध्यायः ॥ त्रिचत्वारिंशोऽध्यायः। प्रवेशे बलवान्खेटः शुभैा सुनिरीक्षितः । सौम्याधिमित्रवर्गस्थो मृत्यवे न भवेत्तदा ॥१॥ मूलं दशाधिनाथस्य विबलस्य दशा यदा । बलिनः स्यात्तदा भङ्गो दशारिष्टस्य तद्भुवम् ॥ २॥ युद्धे च विजयी तस्मिन्ग्रहयोगे शुभे यदि । दशायां न भवेत्कष्टं स्वोच्चादिषु च संस्थितः ॥३॥ इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टभङ्गो नाम त्रिचत्वारिंशोऽध्यायः॥ १ पुंसां. २ चार्यप्रभाषिते. ३ वा सं. ४ मूला. ५ शुभो. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy