________________
चतुश्चत्वारिंशोऽध्यायः।
चतुश्चत्वारिंशोऽध्यायः। अत्युग्रमतिद्रव्यं महान्तमपि भास्करः स्वतुङ्गस्थः । मृष्टाशनाम्बराढ्यं सुभूषणं शीतगुः कुरुते ॥१॥ तेजस्विनं कुतनयो दुष्प्रसहं गर्वितं प्रवासरतम् । मेधाविनं कुलाढ्यं सुनिपुणवाक्यं बुधः खोचे ॥ २ ॥ विख्यातं गुरुराढ्यं विद्वांसं सत्कृतं कुशलम् । स्वोच्चे भृगोश्च तनयो विलासहास्यप्रगीतनृत्तरतम् ॥३॥ खोचस्थो रवितनयो नृपलब्धनियोगमभिजनयेत् । ग्रामपुराधिपतित्वमरण्यकधान्यं कुनारिलाभं च ॥ ४ ॥ भानुस्त्रिकोणसंस्थो धनवन्तं मुख्यमतिनिपुणम् । भोक्तारं गुणवन्तं शशी प्रसूतौ त्रिकोणगः पुरुषम् ॥५॥ वक्रोऽपि तस्करपतिं शूरं खलु निर्दयं चापि । सौम्यो विनोदशीलं जयिनं च स्वत्रिकोणगः कुरुते ॥६॥ जीवः पुनर्हितकरं महत्तरं नयविदं सुखोपेतम् । दानवपूज्यो जनयेद्रामपुरवरिष्ठमाढ्यमतिसुभगम् ॥ ७ ॥ आत्मत्रिकोण आर्किर्धनतृप्तं कुलयुतं शूरम् । तीक्ष्णमयूखः कुरुते महोग्रमत्युच्चकर्माणम् ॥ ८॥ धर्मरतं हिमरश्मिर्मनस्विनं रूपवन्तमात्मः । आढ्यं प्रचण्डमचलं भौमः कुरुते स्वराशिगः पुरुषम् ॥९॥ शशितनयोऽपि विधत्ते वल्गुकथं पण्डितं वाऽपि । काव्यश्रुतिज्ञमाढ्यं गुरुचेष्टं वाक्पतिः स्वराशिस्थः ॥१०॥ दानवपूज्यः कुरुते कृषीवलं स्फीतवित्तं च । कुरुते शनैश्चरोऽपि च मान्यमदुःखं स्वराशिगः पुरुषम् ॥११॥ मित्रगृहेऽर्कः ख्यातं स्थिरसौहृदमर्थदातारम् । मित्रर्भगः शशाङ्को यतस्ततो लब्धसौख्यबहुमानम् ॥१२॥ अङ्गारकोऽपि कुरुते सुहृद्धनारक्षणासक्तम् ।
शशिजः सुहृगृहगतः करोति चातुर्यहास्यधनवन्तम् ॥ १३॥ १ विद्वांसं भूपसत्कृतं प्रसवे. २ धनवन्तं. ३ शुभचेष्टं.
Aho! Shrutgyanam