________________
१७८
सारावली। वचसामधिपः पूज्यं सतां च सुविशिष्टकर्माणम् । मित्रगृहे भृगुतनयः सुहृत्प्रियं देयितवित्तमतिशूरम् ॥१४॥ भास्करसूनुः कुरुते परान्नभोजिनमधर्मकर्मरतम् । नीचे सविता कुरुते प्रेष्यं बान्धवजनावधूतं च ॥ १५॥ हिमरश्मिरल्पपुण्यं रोगिणमपि दुर्भगं लोके । नीचस्थः क्षितितनयोऽनर्थव्यसनोपतप्तमतिनीचम् ॥ १६ ॥ कुरुते हिमकरपुत्रः क्षुद्रं स्वज्ञातिबन्धुवैरं च । नीचे गुरुः प्रकुरुते मलिनं प्राप्तावमानमतिदीनम् ॥ १७॥ असुरदयितोऽस्वतत्रं प्रणष्टदारं विषमशीलम् । कोणो विपन्नशीलं विगर्हिताचारमर्थरहितं च ॥१८॥ कुरुते शत्रुगृहेऽर्को निःस्वं विषयप्रपीडितं चापि । तुहिनमयूखः कुरुते हृद्रोगिणमरिगृहे नरं सततम् ॥१९॥ बन्धारिभङ्गभाजं दीनं विकलं च दुर्भगं भौमः। अज्ञानमतिविहीनं बुधोऽरिभे नैकदुःखमतिदीनम् ॥२०॥ क्लीबं गुरुर्विधत्ते नेयहीनं धनविहीनं च । शुक्रोऽरिगृहे भृतकं कुतत्रमतिदुःखितं जनयेत् ॥२१॥ भास्करसुतोऽपि कुरुते मलिनं व्याध्यादिशोकसन्तप्तम् । स्वेषूच्चभागेषु फलं समग्रं स्वक्षेत्रतुल्यं भवनांशकेषु । नीचारिभागेषु जघन्यमेव मध्यं फलं मित्रगृहांशकेषु ॥२२॥ द्वावुच्चगौ जनयतो धनिनं कीर्त्यान्वितं सदा पुरुषम् । नगरारक्षकमाढ्यं चमूपतिं च त्रयः प्रथितम् ॥ २३ ॥ आढ्यं नृपात्तकीर्ति चत्वारो राजधर्मसंयुक्तम् । ख्यातं नृपतीष्टतमं पञ्चानेकविधवृद्धकोशं च ॥ २४ ॥ षड् ग्रहाः स्वोचगाः कुर्युपतिं पुरुषं सदा । प्रदानौनसम्पन्नं बहुवाहनमण्डितम् ॥ २५ ॥
खोचं याताः सर्वे समुद्रपर्यन्तमेदिनीनाथम् । . जनयन्ति चक्रवर्तिनमवनीशं जातकं चिन्त्यम् ॥ २६ ॥ . १ दयितमिह सूतम्. २ बद्धवैरं च. ३ बन्ध्वरिभङ्गं भौमो विकलं वा दुर्भगं लोके. ४ आज्ञामात्र. ५ बधिरनरं. ६ आब्यो. ७ समं. ८ गुण.
Aho ! Shrutgyanam