Book Title: Saravali
Author(s): Kalyanvarman, V Subhramanya Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 226
________________ २१० सारावली। दुर्बलगृहे ग्रहेन्द्रा मेषो राशियंदोदयं याति । भानुश्चतुष्पदगृहे चतुष्पंदस्तत्र भवति सामान्ये ॥ २८ ॥ सामान्येनाभिहितो वियोनिसंज्ञो मया समासेन । अधुना कौतुकजननं विशेषतः संप्रवक्ष्यामि ॥ २९ ॥ इह तु द्वादशभागो राशौ राशौ प्रचोदितः पूर्वम् । जनयन्ति ते वियोनि याता वलिभिः शशाङ्करविलग्ने ॥३०॥ मेषे शंशी तदंशे छागादिप्रसवमाहुराचार्याः । गोमहिषाणां गोंऽशे नररूपाणां तृतीयेऽशे ॥ ३१ ॥ तत्र चतुर्थे भागे कूर्मादीनां भवेदुदकजानाम् । व्याघ्रादीनां परतः परतो ज्ञेयं नराणां च ॥ ३२ ॥ वणिगंशे नररूपा वृश्चिकभागे तथा भुजङ्गाद्याः । खरतुरगाद्या नवमे मृगशिखिनां स्यात्तथा दशमे ॥ ३३ ॥ ज्ञेयाश्च तत्र विविधा वृक्षास्तृणजातयश्चित्राः । एकादशे च पुरुषा जलजा नानाविधाश्चान्ये ॥ ३४ ॥ मेषे द्वादशभागे जायन्ते जातयो विविधरूपाः । शेषेष्वपि चैवं स्याद्भवनेषु यथाक्रमं नियतम् ॥ ३५ ॥ यो यत्र भवेदाधस्तस्याकृतिमादिशेत्कृते तत्र । ब्रूयात्क्रमेण मतिमान्द्वादशभागात्मके नवमे ॥ ३६ ॥ ज्ञेयादेवं पुंग्रहनवांशकैर्लग्नगैर्द्विमूर्तिभ्यः । आद्यांशे योगैरपि जायन्ते बहुविधाः सत्वाः ॥ ३७॥ श्वप्रभृतीनां प्रसवे यावन्तो द्वादशांशका लग्ने । तावन्ति वदेत्प्राज्ञः पुंस्त्रीसंज्ञान्यपत्यानि ॥ ३८ ॥ लग्ने जीवोऽथवा सौरश्चन्द्रो वाऽपि स्थितो भवेत् । कूर्मादीनां तथा संख्या द्वादशांशेषु यावती ॥ ३९ ॥ शुक्रो भौमो बुधो वाऽपि चन्द्रो वापि शनैश्वरः । कुर्वन्ति बलयुक्तानि भागेष्वङ्गानि पूर्ववत् ॥ ४० ॥ स्वांशात्परस्य भागे यस्मिन्काले ग्रहाः समुपयान्ति । तत्र विकारा ज्ञेया लोकविरुद्धा ध्रुवं प्राज्ञैः ॥४१॥ १ सम्भवति तत्र. २ शशिनि. ३ मृगाः समीनास्तथा. ४ वृक्षा गुल्मा. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268