Book Title: Saravali
Author(s): Kalyanvarman, V Subhramanya Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 225
________________ त्रिपञ्चाशोऽध्यायः। परिघपरिवेषजलदैः शङ्कुकवेधैर्ध्वजैश्च वृक्षश्च। वृषमृगदण्डैः सः शक्रधनुःपांसुभिर्वापि ॥ १५ ॥ यद्वर्णन वृतः स्याद्रहस्तमिह वर्णमादिशेन्मतिमान् । स्वाभाविकैर्ग्रहाणां वर्णैवर्णा भवन्ति जातानाम् ॥ १६ ॥ विहगोदितदृक्काणे ग्रहेण बलिना युते च चरभांशे । बौधेऽशे वा विहगाः स्थलाम्बुजाः शशिनिरीक्षिताः क्रमशः ।। लग्ने जलजे बन्धौ पेक्तिः स्याद्वीक्षितेऽपि वा जलजाः । स्थलजे वा तद्दष्टे ग्रहवर्णसमस्थलप्रभवः ॥ १८ ॥ लग्नार्कजीवचन्द्रैरबलैः शेषैश्च मूलयोनिः स्यात् । स्थलजलभवनविभागा वृक्षादीनां प्रभेदकराः ॥ १९ ॥ अन्तःसारान्वृक्षान्भानुर्दुर्गान्करोति तद्रूपान् । क्षीरस्नेहसमेतान् शशी गुरुः फलसमेतांश्च ॥ २० ॥ कटुकण्टकिनो रुधिरः सुदुर्भगांस्तरणिजस्तथा शुक्रः । कुसुमफलस्नेहयुतान्बुधश्च बलवर्जितं जनयेत् ॥ २१ ॥ क्रूरः सौम्यगृहस्थो वृक्षमनिष्टं करोति शुभदेशे । सौम्यश्च पापभवने कुत्सितदेशे शुभं चापि ॥ २२ ॥ व्यामित्रैः शुभभूमौ भवन्ति मिश्राः सदा वृक्षाः । स्थलजलपतयस्तेषां स्थलजलजानां तु संभवे दक्षाः ॥२३॥ स्थलजलखगौ विलग्नाद्यावति राशौ तु तेऽपि तावन्तः । खांशात्परांशगामिषु यावत्संख्या भवन्ति तावन्तः ॥ २४ ॥ स्वांशे सौम्यैरबलैर्वियोनिलग्ने वियोनिजातं च । तद्वदलिभिः पापैः स्वराशिसदृशांशसंयुक्तैः ॥ २५ ॥ अबलग्रहराशिगता अस्तं याताः पराजिता भिन्नाः । क्रूरयुता दृष्टा वा सद्यो निम्नन्ति ते नित्यम् ॥ २६ ॥ उद्भिजरायुजानां तथैव संस्खेदजाण्डजानां च । प्रसवं व्यस्तसमस्तं ग्रहयोगैर्लक्षणैर्वक्ष्ये ॥ २७ ॥ १ शनिशशीक्षणाद्योगात्. २ पक्षी. ३ जलजः. ४ लमे. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268