Book Title: Saravali
Author(s): Kalyanvarman, V Subhramanya Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 224
________________ सारावली | लग्ने कर्कटके सशीतकिरणे वा सद्रहैः सङ्गते स्वस्थैर्जगतोऽस्य सृष्टिमकरोद्विश्वेश्वरः शाश्वतीम् । यस्यैवं भवति प्रसूतिसमये पुंसः स सम्पालयेत् त्रैलोक्यं सुरसुन्दरीजनवृतः क्रीडां संमां सेवते ॥ २ ॥ समभिव्यक्ति होरा सस्थावरजङ्गमं यथा लोके । कालनिमित्ताकारैर्देशेन च तत्प्रपञ्चोऽयम् ॥ ३ ॥ क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनिलग्ने वा । सौम्यार्किभ्यां केन्द्रे तदीक्षिते वा वियोनिः स्यात् ॥ ४ ॥ आधाने जन्मनि वा प्रश्ने वा द्वादशांशगे चन्द्रः । यस्मिन्व्यवस्थितः स्याल्लग्ने वा तत्समं सत्वम् ॥ ५ ॥ वर्णाकृतिप्रभेदाद्रहयोगनिरीक्षणैर्मुनिभिरुक्ताः । तानहमपि प्रवक्ष्ये विशेषतः सारमादाय ॥ ६॥ मेषवृषौ मुखगलयोरंसकपादेषु मिथुनमीनौ स्तः । पृष्ठोदय पार्श्वेषु च निवेशितौ कर्किकुम्भधरौ ॥ ७ ॥ सिंहमृगौ जघनस्थौ पश्चिमचरणे स्थितौ युवतिचापौ । गुह्यवृषण प्रदेशस्फिक्पुच्छौ ककीटक्षों ॥ ८ ॥ मिथुनादयस्तुलान्ताः सव्ये भागे चतुष्पदानां च । वामे झपघटधरमृगकार्मुकभृद्वृश्चिकाश्चिन्त्याः ॥ ९ ॥ मेषादिभिरुदयस्थैरंशैर्वा ग्रहयुतैश्च दैवी । स्वं स्वं वर्णं ब्रूयाद्गात्रे चिह्नं व्रणं वाऽपि ॥ १० ॥ स्वगृहांशकसंयोगाद्विद्याद्वर्णान्परांशके ऋक्षान् । सप्तमसंस्थाः कुर्युः पृष्ठे रेखां स्ववर्णसमाम् ॥ ११ ॥ वीक्षन्ते यावन्तो वियोनिवर्णाश्च तावन्तः । बलदीप्तो गगनचरः करोति वर्णं वियोनीनाम् ॥ १२ ॥ पीतं करोति जीवः शशी सितं भार्गवो विचित्रं च । रक्तौ दिनकररुधिरौ रविजः कृष्णं बुधः शबलम् ॥ १३ ॥ स्वे राशौ परभागे परराशौ स्वांशके तिष्ठन् । पश्यन् ग्रहोऽपि लग्नं सुवर्णवर्ण तदा कुरुते ॥ १४ ॥ . १ समासेवते. २ तद्वीक्षिते चोदये. २०८ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268