________________
सारावली |
लग्ने कर्कटके सशीतकिरणे वा सद्रहैः सङ्गते स्वस्थैर्जगतोऽस्य सृष्टिमकरोद्विश्वेश्वरः शाश्वतीम् । यस्यैवं भवति प्रसूतिसमये पुंसः स सम्पालयेत् त्रैलोक्यं सुरसुन्दरीजनवृतः क्रीडां संमां सेवते ॥ २ ॥ समभिव्यक्ति होरा सस्थावरजङ्गमं यथा लोके । कालनिमित्ताकारैर्देशेन च तत्प्रपञ्चोऽयम् ॥ ३ ॥ क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनिलग्ने वा । सौम्यार्किभ्यां केन्द्रे तदीक्षिते वा वियोनिः स्यात् ॥ ४ ॥ आधाने जन्मनि वा प्रश्ने वा द्वादशांशगे चन्द्रः । यस्मिन्व्यवस्थितः स्याल्लग्ने वा तत्समं सत्वम् ॥ ५ ॥ वर्णाकृतिप्रभेदाद्रहयोगनिरीक्षणैर्मुनिभिरुक्ताः । तानहमपि प्रवक्ष्ये विशेषतः सारमादाय ॥ ६॥ मेषवृषौ मुखगलयोरंसकपादेषु मिथुनमीनौ स्तः । पृष्ठोदय पार्श्वेषु च निवेशितौ कर्किकुम्भधरौ ॥ ७ ॥ सिंहमृगौ जघनस्थौ पश्चिमचरणे स्थितौ युवतिचापौ । गुह्यवृषण प्रदेशस्फिक्पुच्छौ ककीटक्षों ॥ ८ ॥ मिथुनादयस्तुलान्ताः सव्ये भागे चतुष्पदानां च । वामे झपघटधरमृगकार्मुकभृद्वृश्चिकाश्चिन्त्याः ॥ ९ ॥ मेषादिभिरुदयस्थैरंशैर्वा ग्रहयुतैश्च दैवी । स्वं स्वं वर्णं ब्रूयाद्गात्रे चिह्नं व्रणं वाऽपि ॥ १० ॥ स्वगृहांशकसंयोगाद्विद्याद्वर्णान्परांशके ऋक्षान् । सप्तमसंस्थाः कुर्युः पृष्ठे रेखां स्ववर्णसमाम् ॥ ११ ॥ वीक्षन्ते यावन्तो वियोनिवर्णाश्च तावन्तः । बलदीप्तो गगनचरः करोति वर्णं वियोनीनाम् ॥ १२ ॥ पीतं करोति जीवः शशी सितं भार्गवो विचित्रं च । रक्तौ दिनकररुधिरौ रविजः कृष्णं बुधः शबलम् ॥ १३ ॥ स्वे राशौ परभागे परराशौ स्वांशके तिष्ठन् । पश्यन् ग्रहोऽपि लग्नं सुवर्णवर्ण तदा कुरुते ॥ १४ ॥ . १ समासेवते. २ तद्वीक्षिते चोदये.
२०८
Aho! Shrutgyanam