________________
त्रिपञ्चाशोऽध्यायः। परिघपरिवेषजलदैः शङ्कुकवेधैर्ध्वजैश्च वृक्षश्च। वृषमृगदण्डैः सः शक्रधनुःपांसुभिर्वापि ॥ १५ ॥ यद्वर्णन वृतः स्याद्रहस्तमिह वर्णमादिशेन्मतिमान् । स्वाभाविकैर्ग्रहाणां वर्णैवर्णा भवन्ति जातानाम् ॥ १६ ॥ विहगोदितदृक्काणे ग्रहेण बलिना युते च चरभांशे । बौधेऽशे वा विहगाः स्थलाम्बुजाः शशिनिरीक्षिताः क्रमशः ।। लग्ने जलजे बन्धौ पेक्तिः स्याद्वीक्षितेऽपि वा जलजाः । स्थलजे वा तद्दष्टे ग्रहवर्णसमस्थलप्रभवः ॥ १८ ॥ लग्नार्कजीवचन्द्रैरबलैः शेषैश्च मूलयोनिः स्यात् । स्थलजलभवनविभागा वृक्षादीनां प्रभेदकराः ॥ १९ ॥ अन्तःसारान्वृक्षान्भानुर्दुर्गान्करोति तद्रूपान् । क्षीरस्नेहसमेतान् शशी गुरुः फलसमेतांश्च ॥ २० ॥ कटुकण्टकिनो रुधिरः सुदुर्भगांस्तरणिजस्तथा शुक्रः । कुसुमफलस्नेहयुतान्बुधश्च बलवर्जितं जनयेत् ॥ २१ ॥ क्रूरः सौम्यगृहस्थो वृक्षमनिष्टं करोति शुभदेशे । सौम्यश्च पापभवने कुत्सितदेशे शुभं चापि ॥ २२ ॥ व्यामित्रैः शुभभूमौ भवन्ति मिश्राः सदा वृक्षाः । स्थलजलपतयस्तेषां स्थलजलजानां तु संभवे दक्षाः ॥२३॥ स्थलजलखगौ विलग्नाद्यावति राशौ तु तेऽपि तावन्तः । खांशात्परांशगामिषु यावत्संख्या भवन्ति तावन्तः ॥ २४ ॥ स्वांशे सौम्यैरबलैर्वियोनिलग्ने वियोनिजातं च । तद्वदलिभिः पापैः स्वराशिसदृशांशसंयुक्तैः ॥ २५ ॥ अबलग्रहराशिगता अस्तं याताः पराजिता भिन्नाः । क्रूरयुता दृष्टा वा सद्यो निम्नन्ति ते नित्यम् ॥ २६ ॥ उद्भिजरायुजानां तथैव संस्खेदजाण्डजानां च । प्रसवं व्यस्तसमस्तं ग्रहयोगैर्लक्षणैर्वक्ष्ये ॥ २७ ॥
१ शनिशशीक्षणाद्योगात्. २ पक्षी. ३ जलजः. ४ लमे.
Aho ! Shrutgyanam