________________
२१०
सारावली।
दुर्बलगृहे ग्रहेन्द्रा मेषो राशियंदोदयं याति । भानुश्चतुष्पदगृहे चतुष्पंदस्तत्र भवति सामान्ये ॥ २८ ॥ सामान्येनाभिहितो वियोनिसंज्ञो मया समासेन । अधुना कौतुकजननं विशेषतः संप्रवक्ष्यामि ॥ २९ ॥ इह तु द्वादशभागो राशौ राशौ प्रचोदितः पूर्वम् । जनयन्ति ते वियोनि याता वलिभिः शशाङ्करविलग्ने ॥३०॥ मेषे शंशी तदंशे छागादिप्रसवमाहुराचार्याः । गोमहिषाणां गोंऽशे नररूपाणां तृतीयेऽशे ॥ ३१ ॥ तत्र चतुर्थे भागे कूर्मादीनां भवेदुदकजानाम् । व्याघ्रादीनां परतः परतो ज्ञेयं नराणां च ॥ ३२ ॥ वणिगंशे नररूपा वृश्चिकभागे तथा भुजङ्गाद्याः । खरतुरगाद्या नवमे मृगशिखिनां स्यात्तथा दशमे ॥ ३३ ॥ ज्ञेयाश्च तत्र विविधा वृक्षास्तृणजातयश्चित्राः । एकादशे च पुरुषा जलजा नानाविधाश्चान्ये ॥ ३४ ॥ मेषे द्वादशभागे जायन्ते जातयो विविधरूपाः । शेषेष्वपि चैवं स्याद्भवनेषु यथाक्रमं नियतम् ॥ ३५ ॥ यो यत्र भवेदाधस्तस्याकृतिमादिशेत्कृते तत्र । ब्रूयात्क्रमेण मतिमान्द्वादशभागात्मके नवमे ॥ ३६ ॥ ज्ञेयादेवं पुंग्रहनवांशकैर्लग्नगैर्द्विमूर्तिभ्यः । आद्यांशे योगैरपि जायन्ते बहुविधाः सत्वाः ॥ ३७॥ श्वप्रभृतीनां प्रसवे यावन्तो द्वादशांशका लग्ने । तावन्ति वदेत्प्राज्ञः पुंस्त्रीसंज्ञान्यपत्यानि ॥ ३८ ॥ लग्ने जीवोऽथवा सौरश्चन्द्रो वाऽपि स्थितो भवेत् । कूर्मादीनां तथा संख्या द्वादशांशेषु यावती ॥ ३९ ॥ शुक्रो भौमो बुधो वाऽपि चन्द्रो वापि शनैश्वरः । कुर्वन्ति बलयुक्तानि भागेष्वङ्गानि पूर्ववत् ॥ ४० ॥ स्वांशात्परस्य भागे यस्मिन्काले ग्रहाः समुपयान्ति । तत्र विकारा ज्ञेया लोकविरुद्धा ध्रुवं प्राज्ञैः ॥४१॥ १ सम्भवति तत्र. २ शशिनि. ३ मृगाः समीनास्तथा. ४ वृक्षा गुल्मा.
Aho ! Shrutgyanam