________________
त्रिपञ्चाशोऽध्यायः।
२११ वृश्चिकलग्ने भवने तन्नवभागेऽथवा द्विपदसंज्ञे । बिलवासिनां प्रसूतिघोराणां निर्दिशेत्तत्र ॥ ४२ ॥ गोधानां सर्पाणां लोपाशानां च शल्यकानां च । मूषकबिलेशयानां राशिमतां चापि कीटानाम् ॥ ४३ ॥ हयनरविदेहलग्ने द्वादशभागे नवांशके वापि । पश्यति नरेन्द्रसचिवस्तत्रोत्पत्तिर्भवेदेषाम् ॥ ४४ ॥ लूतानां नकुलानां वृश्चिकपद्धिन्दुजातकानां च । अविषाणां सर्पाणां श्वभ्राश्मनिवासिनां चैव ॥ ४५ ॥ वाजिखराश्वतराणां गोमहिषाणां तथोष्ट्राणाम् । गुरुवर्णकल्परूपान्प्रवदेन्मतिमान्बलेनैव ॥४६॥ मृगवदने लग्नस्थे तन्नवभागे तथापि सूर्यांशे । आरण्यानां सूर्ति सत्वानां निर्दिशेत्क्रमशः ॥ ४७ ॥ नागानां खड्गानां वृकशरभवराहवानराणां च । ऋक्षोग्रसृगालानां व्याघ्रादीनां भवेत्सूतिः ॥४८॥ मीने मीनांशे वा तजे सूक्ष्मांशकेऽपि वा लग्ने । गुरुदृष्टे विज्ञेयो बहूदकोत्थः सदा सत्वः ॥४९॥ भेष मेषांशे वा भौमेन निरीक्षिते सदाजावी । वृषभे तु वदेत्तद्वगोमहिषाद्यान्सदा भृगुणा ॥ ५० ॥ खं वं पूर्व विलग्नं खैः खैदृष्टं यदेह पतिभिस्तु । स्वभवनसदृशान्विद्वान्प्रवदेदविशङ्कितं तत्र ॥ ५१ ॥ ग्राम्यगृहेषु नवांशाः पञ्चमनवमांशसंयुक्ताः । आरण्यानां सूर्ति ग्रामेषु सुनिश्चितां कुर्युः ॥ ५२ ॥ स्थलजलराशिविभागा नागरभवनेषु लग्नसंस्थेषु । स्थलजलचरसत्वानां जनयन्ति भवं हि विटपानाम् ॥५३॥ उदयति वणिग्विलग्ने तद्रेक्काणे सितेन संदृष्टे । शुकसारिकान्यपुष्टाश्चकोरभासाश्च जायन्ते ॥ ५४॥
१ पञ्चमदशमाष्टराशि.
Aho ! Shrutgyanam