________________
त्रिपञ्चाशोऽध्यायः ।
प्राप्त्यन्त्यारितपःसुतेषु तपनात्स्वासंत्रिकर्मादिषु खाज्ञायारिनवाष्टमेषु शशिनो लग्नात्सपूर्वाच्छुभः ॥ ५॥ केन्द्रायास्तधनेषु भूमितनयात्स्वास्तत्रिषु ब्राह्मणो भानोः सत्रिनवेषु धर्मदशधीलाभारिगो भार्गवात् । धर्मायास्तधनात्मजेषु शशिनः कोणात्रिपड्धीव्यये खाज्ञायाम्बुनवारिपुत्रतनुषु ज्ञात्सास्तगस्तूदयात् ॥६॥ लग्नादातनयायरन्ध्रनवगश्चन्द्रात्सितः सव्ययात् खात्साज्ञेषु शुभो यमान्नवदशात्मायाष्टपञ्चाम्बुषु । व्यन्यायारिसुहृन्नवेषु रुधिराद्रिःफायरन्ध्रेष्विनात् ज्ञाव्यायारिनवात्मजेष्वथ गुरो(खाष्टधर्मायगः ॥ ७॥ खान्यायात्मजषत्रिकेषु रविजः सान्त्याम्बरस्थः कुजात् भानोः केन्द्रधनायमृत्युषु तनोख्यायारिखाद्याम्बुगः । आज्ञायाष्टनवान्त्यशत्रुषु बुधादिन्दोर्भवारित्रिषु शुक्रादन्त्यभवारिषु द्विजवरात्स्वात्यायधीशत्रुगः ॥८॥ इत्युक्तं शुभमन्यदेवमशुभं चारक्रमेण ग्रहाः शस्ताशस्तविशेषितं विदधति प्रोत्कृष्टमेतत्फलम् । स्वःस्खोचसुहृद्गृहेषु सुतरां शस्तं त्वनिष्टं समं खोचस्वामिगता दशापतिबलाद्धन्त्यष्टवर्गोद्भवम् ॥९॥ रविरुधिरौ भवनं प्रविशन्तौ गुरुभृगुजौ गृहमध्यसमेतौ ।
शनिशशिनौ खलु निर्गमकाले शशितनयः फलदस्तु सदैव १० इति कल्याणवर्मविरचितायां अष्टकवर्गाध्यायो नाम द्विपञ्चाशोऽध्यायः ॥
त्रिपञ्चाशोऽध्यायः। दैवविदां नीतिकरं विश्वसनीयं समस्तलोकस्य । कनकाचार्यस्य मताद्वियोनिसंज्ञं प्रवक्ष्यामि ॥ १॥
१ त्सायकर्मत्रिगः. २ खाया. ३ नवरिःफपुत्र. ४ खादायात्मज. ५ प्राप्या. ६ वखखामिगतं. ७ प्रीतिकरं.
Aho! Shrutgyanam