________________
सारावली ।
पादत्रितयं विदलं दिनरजनीमानयोः क्रमात्क्रमशः । पृच्छ कराशिसमानैर्दिवसनिशासंज्ञिताः पिण्डम् ॥ १७ ॥ वारनमनिंहृताग्रं प्रोद्गच्छति तावदेव नक्षत्रम् | अश्विमघामूलाद्यं नैवकं नवकं क्रमादृक्षम् ॥ १८ ॥ तलिप्ता सप्तहृताच्छेषाद्वारो भवेच्च ऋक्षादि । शेषं प्राग्वत्कार्यं पृच्छकसूर्यादिभिदीयम् ॥ १९॥ उद्गतदशा व्यतीता गम्याथ विलोमतो भवेन्नित्यम् । तावत्संख्या योज्या नष्टविधौ कालपरिमाणे ॥ २० ॥ इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्यायो नामैकपञ्चाशोऽध्यायः ॥
२०६
द्विपञ्चाशोऽध्यायः ।
उक्तो हि यवनवृद्धैरष्टकवर्गो निवेदयति पुंसाम् । हेतुं शुभमशुभं वा प्रतिदिवस संभवन्तमिह ॥ १ ॥ स्वात्केन्द्रायनवाष्टवित्तगृहगो भौमार्कसून्वोरविजीवादायनवात्मजारिषु सितात् षड्वादशास्तस्थितः । चन्द्राद्वृद्धिषु बोधनात्सनवधीरिः फेषु लग्नाच्छुभः साम्बुद्वादशगोऽष्टवर्गविधिना संशोधितो भास्करः ॥ २ ॥ लग्नाद्धातृदशायशत्रुषु शशी सास्तादिषु स्वाच्छुभः भौमात्सार्थनवात्मजेषु रवितः साष्टाङ्गनास्थो गुरोः । केन्द्रायाष्टधनेषु धर्मसुखधीत्र्यायास्तखस्थः सितात् केन्द्रायत्रिसुताष्टगः शशिसुताद्धमीयषट्स्वर्कजात् ॥ ३ ॥ भौमो वृद्धिषु सात्मजासु रवितः साद्यासु लग्नाच्छुभः चन्द्रात्पत्रिफलेषु केन्द्र विवरखप्तिस्थितः स्वागृहात् । धर्मायाष्टमकण्टकेषु रविजाज्ज्ञाच्यायवीशत्रुषु शुक्रादन्त्यभवारिमृत्युषु गुरोः षड्डाभकर्मान्त्यगः ॥ ४ ॥ ज्ञोऽष्टायादिशुभार्थबन्धुषु सुतभ्रातृस्थितो भार्गवात् भौमार्योः सदृशास्तगो रिपुभवच्छिद्रान्त्यसंस्थो गुरोः ।
१ निभृतानं. २ विनवं सनवं. ३ पृच्छादि. ४ प्राप्ति.
Aho! Shrutgyanam