________________
एकोनपञ्चाशोऽध्यायः।
२
.
५
द्रेक्काणेऽधै भवेत्पूर्व मासः पूर्वे' परे परः ॥३॥ अनुपातात्तिथिः कल्प्या केचिदाहुरिनांशजाम् । लग्नभागैरिभ्यस्तैः पञ्चभिर्लभ्यते गुरुः ॥ ४ ॥ वयोनुमानाद्वर्षाणि द्वादश द्वादश क्षिपेत् । धुरात्रिनामधेयेषु विलोमाजन्मसम्भवः ॥ ५ ॥ लग्नभागैः क्रमेणैव वेला मृग्याऽनुपाततः । लग्नत्रिभागराशीनां यो बली जन्मकृद्भवेत् ॥ ६॥ शीर्षादि संस्पृशन् प्रष्टा पृच्छेत्तद्राशिमादिशेत् । यावद्गतः शशी लग्नाचन्द्रात्तावति जन्मभः ॥७॥ मीनोदये वदेन्मीनं लग्नांशसदृशोदयम् । लग्नाद्भानुदृगाणे च यावत्यर्काच तावति ॥ ८॥ विलग्नं कथयेत्प्राज्ञ इति शास्त्रस्य निश्चयः । लग्नगे वीर्यगे वाऽपि च्छायाङ्गुलहते हृते ॥ ९॥ रविभिर्जन्मशिष्टं हि कथयेदविशङ्कितः । तिष्ठतः शयनस्थस्य निविष्टस्योत्थितस्य च ॥ १० ॥ लग्नादिकेन्द्रवेश्मानि वदेज्जन्मविधौ क्रमात् । भावं विचार्य सकलं यद्यत्तुल्यं तु तत्तथा ॥ ११॥ संस्कारनाममात्रा द्विगुणा च्छायाङ्गुलैः समायुक्ताः । त्रिघनविभक्ताच्छेपं नक्षत्रं तद्धनिष्ठादि ॥ १२ ॥ वृपसिंहौ दशगुणिती वसुभिर्मिथुनालिको वणिमेषौ । मुनिभिः कन्यामकरौ बाणैः शेषाः स्वसंमितैरेव ॥१३॥ गुरुणा कुजेन भृगुणा बुधेन्दुभान्वार्किभिः क्रमशः । वर्षर्तुमासतिथयो थुनिशाभनवांशवेलाश्च ॥ १४ ॥ एवं क्रमेण हृत्वा स्वविकल्पविभाजिताच्छेषम् । एवं भवन्ति सर्वे नवदानविशोधने च पुनः ॥ १५ ॥ यवनेन्द्रदर्शनाद्यैः कथितं तदिहात्र सर्वमेव मया । किन्तु स्फुटं न सर्व स्पष्टं सारस्वतं चिन्त्यम् ॥ १६ ॥
१ पूर्वः.
१८ सारा.
Aho! Shrutgyanam