SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०४ सारावली | काननपर्वतचारी बृहच्छिराः स्याद्वितीयांशे ॥ १०२ ॥ गौरः शठः सुचक्षुः शस्ततनुर्धर्मवान्सुविद्वांश्च । दाक्षिण्यवान्विनीतस्तृतीयजो रूपवांश्चतुरः ॥ १०३ ॥ गुणवान्विपन्नशीलः प्रवृद्धसेवी क्रियापंटुर्विद्वान् । सत्वाधिको नयज्ञस्तुङ्गनसः स्याच्चतुर्थे तु ॥ १०४ ॥ दीर्घेोऽसितः प्रतापी तुङ्गाङ्गः खल्पनासिकः स्वक्षः । हिंसारतिः शुभरदो दुष्प्रसहः पञ्चमे प्रतापी स्यात् ॥ १०५ ॥ कान्तः प्रतापगुणवान्प्रसन्नवंशोऽल्पनासिको मानी । तिर्यग्वदनः ख्यातः षष्ठेऽशे स्यात्तथा निपुणः ॥ १०६ ॥ पुरुषाभिमानपरकृद्धर्मरुचिः श्रेष्ठकश्च सचिवः स्यात् । प्रबलो विषादशीलः शठोऽस्थिरः सप्तमे भागे ॥ १०७ ॥ दीर्घो बृहच्छिरः स्यात्कृशोऽलसो रूक्षनेत्र केशश्च । मन्दात्मजोऽर्थनिरतो रणकुशलो ह्यष्टमे भागे ॥ १०८ ॥ ह्रस्वो मृदुः सुधीरो विशालवक्षोक्षिनासिकः स्निग्धः । विहिताङ्गबुद्धिगुणवान्नवमेंऽशे स्यात्पुमान्ख्यातः ॥ १०९ ॥ ॥ इति मीने ॥ यत्प्रोक्तांशादिफलं द्वादशभागेऽपि तत्फलं वाच्यम् । सप्तमभागसमानं शेषेषु विनिर्दिशेत्प्राज्ञः ॥ ११० ॥ इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये नववर्गगुणचिन्ता नाम पञ्चाशोऽध्यायः ॥ एकपञ्चाशोऽध्यायः । प्रश्नकाले विलग्नस्य पूर्वार्धेऽप्युत्तरायणे । अपर दक्षिणे ब्रूयाजन्मसम्पृच्छतो बुधः ॥ १ ॥ ऋतुर्वाच्यो हगाणांशे लग्नसंस्थेऽपि वा ग्रहैः । अयनस्य विलोमे तु परिवर्तः परस्परम् ॥ २ ॥ शशिज्ञगुरुभिः सार्धं सितलोहित सूर्यजैः । १ पटुर्वीरः २ शठः ३ वित. ४ प्रोक्तं राशि. ५ गृहे. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy